________________
लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे कम्बुग्रीवादिमान घट इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिनातियोगिताकभेदाप्रसिद्धया विशेषणविभक्तेरभेदार्थव त्वासम्भवः । एवं नीलपटादिपरनीलादिपदबैटितस्य नीलो घट इ यादिवाक्यापि प्रामाण्यापत्तिः । नीलत्वादिना पटादेर्भदाभावस्य नीलघटाहो सत्त्वात्। एतेन विशेषणतावच्छेदकीभूतनीलप्रमेयत्वादिकमेव विशेषणविभक्त्यर्थः, नोलत्वादेर्नीलत्वावच्छिन्न भेदाभावरूपत्याऽभेदार्थकत्वप्रवादोपपत्तिरित्यपि निस्स्तम् । नील बादौ नीलत्वादिमत; स्ववृत्तित्वसम्बन्धेनान्वये आकाङ्क्षाविरह च । यथा हि तद्विशिष्टे अधिकरणे आश्रयतया तदन्वयोऽनुभवविरुद्धः तथा तद्धर्मे आधेयतया तद्धर्मवदन्वयोऽपि । अत एव कर्म गच्छतीति वाक्यस्य निराकाङ्क्षता। न चैवं संसर्गतामतेऽप्यनिस्तारः ।
ग्रीवादिमान् घट इत्यादि बोधानुपपत्तिरित्याह--लघुध-मसमनियतेत्यादि ।
प्रामाण्यापत्तिरिति । नीलपटगतनीलत्वं नीलगुण एव । स च नीलघटगतनीलगुणाद्भिन्न एव । तथा च नीलत्वावच्छिन्ननीलपट निष्ठप्रतियोगिताकभेदाभावो नीलपटनिष्ठनीलगुणस्वरूपस्तस्य घटेऽसत्त्वेन कथं नीलपटपरनीलपदघटितनीलो घट इति वाक्यस्य प्रामाण्यापत्तिरिति न वाच्यम् । पटरूपद्रव्यपरद्रव्यपदघटितस्य द्रव्यं घट इति वाकास्योपलक्षणीयत्वात् नीलत्वावच्छिन्नाधेयतानिरूपिताधिकरणत्वस्यैव नीलत्वपदेन ग्रहणाद्वा तस्याधिकरणत्वस्य चैक्यात् । एतेनेति । तृतीयदोषस्य सत्त्वेनेत्यर्थः । नीलस्वादौ नीलत्वादिमत इति । अत एव नीलस्य नीलत्वमिलादावन्वयबोधो न । तद्विशिष्ट अधिकरण इति । नीलो नीलत्ववानित्यादा पति बोध्यम् । अत एवेति । कर्म गच्छतीत्यादिवाक्यात् कर्मत्वविशिष्टस्य ! कृत्यर्थस्य वृत्तित्वसम्बन्धेन द्वितीयाथकर्मत्वे अन्वयबोधाभावादिति भावः । न चैवं संसर्गता