SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः शेष्यवाचकपदसमभिव्याहारस्य प्रयोजकत्वमित्युपगमात् । पश्च प्रमेयो घट इत्यादौ प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धया घट इत्यत्राप्यभेदबोधापत्तिः । न च धान्येन धनवानितिवन्नीलेन घट इत्यपीष्यत एवेति वाज्यं, प्रकृत्यादिभ्य उपसंख्यानमितिवार्तिकेतरस्याभेदे तृतीयाविधायकशास्त्रस्याभावात् । तच्च वार्लिकं सर्वविभक्त्यपवादभूतमत एव प्रकृत्या चारुः, गोत्रेण गार्ग्यः, समेनैति, विषमेनैतीत्यादौ प्रकृतेश्चारुः प्रकृतिश्चारुः, गोत्रो गार्ग्यः, सममेति, विषममेतीत्यादयो न प्रयोगाः । तथा च यत्र तृतीयातिरिक्ता विभक्तिन प्रामाणिकी तत्रैव प्रकृत्यादिभ्य इति वार्तिकं प्रवर्तत इति निश्चीयते । अब च नीलो घट इति प्रयोगे प्रथमायाः प्रामाणिकत्वं सर्वैरवगम्यते तस्मान्न प्रकृत्यादिपदेन नीलादीनां ग्रहणमिति नीलेन घट इति प्रयोगो न प्रामाणिकः । इदानीं नीलेन घट इत्यस्यापि बोधजनकत्वेन प्रामाणिक वापत्तिरिति चेत्-न । प्रकृत्यादिभ्य उपसंख्यानमितिवार्त्तिकविहिततृतीयातिरिक्ततृतीयार्थाभेदप्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिहारः कारणमिति कार्यकारणभावकल्पनेन नीलेन घट ' इत्यादावापत्त्यभावात् । अथ प्रमेयो घट इति । विभक्त्यर्थे भेदे प्रकृत्यर्थस्य प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदस्य च प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः कार्य्यः । स च न सम्भवति । भेदस्य हि प्रतियोगितावच्छेदकेन सह विरोधात् सर्वत्र प्रमेयत्वस्य सत्त्वेन प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धिरित्याह-प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धचेति । कम्बुग्रीवादिमति कम्बुग्रीवादिमत्वं घटत्वञ्च वर्तते । कम्बुग्रीवादिमति या भेदीया प्रतियोगिता तदवच्छेदकं लाघवात् घटत्वमेवेत्येवं रीत्या लघुधर्मसमनियतगुरुधर्मस्य प्रतियोगितानवच्छेदकत्वं तथा च कम्बुग्रीवादिमत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धया कम्बु
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy