________________
... व्युत्पत्तिवादः
[ कारके - दिवशात् । एतेन- भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इत्यपि निरस्तम्। न च विशेषणविभक्तरभेदार्थकत्वमते नीलं घट इत्यादावप्यभेदान्वयबोधापत्तिर्धान्येन धनवानित्यादौ तृतीयया अभेदबोधनात् अभेदप्रकारकबोधे विरुद्धविभक्तिराहित्यस्यानपेक्षणादिति वाच्यम् । द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तवि
काभावलाभस्त्वित्यर्थः । इत्यपि निरस्तमिति । भेदस्य विभक्तिजन्योपस्थितीयमुख्यविशेष्यताश्रयत्वरूपपदार्थतया पदार्थंकदेशत्वाभ वान्नैकदेशान्वय इति भावः । विशेषणविभक्तेरभेदार्थकत्वमते इति । अनेन ग्रन्थेनाभेदसंसर्गकबोधाभ्युपगमे नायं दोष इति लभ्यतेऽन्यथा विशेषणविभक्तेरभेदार्थकत्वेतिविशेषोक्तेरसङ्गत्यापत्तेस्तन्नोपपद्यते । संसर्गतामते धान्येन धनवानित्यादावप्यभेदसंसर्गकबोध एव वक्तव्यस्तथा च संसर्गतया भाने समानविभक्तिकत्वस्यानियामकत्वात् तन्मतेऽपि नीलं घट इत्यादावापत्तिसम्भवाद्विशेषणविभक्तेरभेदार्थकत्व इत्यसङ्गतमेवेति चेत्--न । संसर्गत या भाने स्तोकं पचतीत्यादेरिव धान्येन धनवानित्याकाङ्क्षाया नियामकत्वेऽपि नीलं घट इत्याकाङ्क्षाया अनियामकत्वेन दोषाभावात् । प्रकारतामते एव दोषस्य सत्त्वेन विशेषोक्तेरावश्यकत्वात्। नीलं घट इत्यादावप्यभेदान्वयबोधापत्तिरिति। नीलप्रतियोगिकभेदाभावविशिष्टो घट इति बोधापत्तिरित्यर्थः । नन्वभेदप्रकारकबोधेऽपि समानविभक्तिकत्वरूपविरुद्धविभक्तिराहित्यस्यापेक्षणान्नापत्तिरित्यत आह-धान्येनेत्यादि । द्वितीयादिनेति । प्रथमार्थाभेदप्रकारकबोधे प्रथमान्तविशेष्यवाचकपदसमभिव्याहारः कारणमित्यादिरीत्या कार्यकारणभाव इति भावः ।
नन्वादिपदेन सर्वासां विभक्तीनां ग्रहणे धान्येन धनवानित्यादावभेदान्वयबोधानापत्तिः । तृतीयातिरिक्तानां तासां ग्रहणे तृतीयार्थाभेदप्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिहारस्यानपेक्षणात् । नीलेन