________________
विभक्त्यर्थः । नोलपदसमभिव्याहारान्नीलभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम् । पदार्थद्वयसंसर्गभानस्यैवाकाङ्क्षानियम्यत्वान्नीलभेदत्वावच्छिन्नप्रतियोगितान्तर्भावेण वृत्ति विना भेदरून पपदार्थतावच्छे कस्याभावे तादृशसंबन्धेन भानासंभवात् । मैत्रम्। भेदोऽभावश्च विशेषणविभक्तरर्थः। विशिष्टलाभस्त्वाकाङ्क्षा
विधेयभूतनीलभेद भावात् । तयोर्भेदस्य शाब्दबोधे हेतुत्वात् । अन्यथा घटो, घटत्ववानिति प्रत त्यापत्तेः । अत एव नीलभेदत्वावच्छिन्नाभावेऽपि वृत्तित्वसम्बन्धनान्वयोऽपि न । न च भेदप्रतियोगिकाभाव एव विभक्तर्थः । भेदे च नीलस्य स्वनिष्ठ प्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहाररूपाकाङ्क्षावलाच्च भेदस्य पदार्थंकदेशस्य स्वनिष्ठनीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च नीलभेदत्वावच्छिन्नाभावस्या नाप्रसिद्धिः । अवच्छेदकप्रवेशाच्च नोभयाभावमादाय नीलं जलमित्यस्य प्रामाण्यं पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् पीतभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति सर्वमुपपन्नम् ।।
पदार्थद्वयसंसर्गभानस्यैवेत्यादि । एकपदार्थेऽपरपदार्थस्यैव संसर्गस्याकाङ्क्षाभास्यत्वनियमात् भेदरूपपदार्थंकदेशस्याभावरूपपदार्थंकदेशे नीलभेदत्वांवच्छिन्न प्रतियोगिताकत्वसंसर्गस्य नीलपदसमभिव्याहाररूपाकाङ्क्षाभास्यत्वासम्भवात् । नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वस्य भानाय विभक्त्यर्थतावच्छेदककोटावेव प्रवेशः कर्त्तव्यः । तथा च पूर्वोक्तोऽनन्वय एवेति भावः । मैवमिति । भेदप्रतियोगिकाभावरूपविशिष्टस्य विभक्त्यर्थत्वे एव भेदादेः पदार्थंकदेशत्वं स्यात्तदेव नेत्याह--भेदोऽभावश्चेति । तथा चोभयोः पदार्थत्वात् । प्रकृत्यर्थस्य नीलादेर्भेदपदार्थे नीलत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । भेदस्य चाभावपदार्थे स्वनिष्ठनीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहाररूपाकाङ्क्षा। बलादित्याह-विशिष्टलाभस्त्विति । नीलभेदत्वावच्छिन्नप्रतियोगिता