SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ नीलभेदाद्यभावस्य सत्त्वात् । नीलभेदत्वावच्छिन्नाभावस्य विभक्त्यर्थत्वे नीलादिपदार्थानन्वथप्रसङ्गः। न च भेदप्रतियोगिकाभाव एव नेन न दोष इति चेत्--इदमत्रावधेयम् । नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वान्नीलत्वरूपस्तथा चं नीलभेदाभावस्य नीलभेद इव नीलत्वमपि प्रतियोगि तत्समानाधिकरण एव नीलभेदाभाव इति प्रतियोगिताविशिष्टान्यो नीलभेदाभावोऽप्रसिद्ध एव । किञ्चानीलघटभेदो नीलगुणस्वरूपो नीलगुणस्य च नानात्वात् । यत्किञ्चिन्नीलगुणवत्यपि 'बटे यत्किञ्चिन्नीलगुणात्मकस्यानीलघटभेदस्य योऽभावस्तस्य सत्त्वेन नीलो घटोऽनील इत्यापद्यतेति । ननु नीलो घट इत्यादौ नीलभेदत्वावच्छिन्नप्रतियोगिताकाभाव एव विभक्त्यर्थोऽस्तु । नीलभेदत्वपर्याप्तावच्छेदकतायाः प्रवेशेन नोभयाभावमादाय नीलं जलमित्यस्य प्रामाण्यं नीलस्य प्रतियोगितावच्छेदके प्रवेशेन नाप्रसिद्धिरपि । न च पीतो 'घट इत्यादौ पीतभेदत्वावच्छिन्नप्रतियोगिताकाभावस्यैव विभक्त्यर्थत्वं वक्तव्यम् । तथा च शक्यतावच्छेदकानन्त्येन शक्त्यनन्तताप्रसङ्ग इति वाच्यम् । स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षितध विच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावत्वस्यैकस्यैव शक्यतावच्छेदकत्वेनानन्त्याप्रसङ्गात् नीलादिपदसमभिव्याहाराच्च । नीलत्वाद्यवच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थो लभ्यते । पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् । पीतत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थ इत्याह-- नीलभेदत्वावच्छिन्नप्रतियोगिताकाभावस्येत्यादि । ___ नीलादिपदार्थानन्वय इति । नीलरूपप्रकृत्यर्थस्य विभक्त्यर्थंकदेशे नीले अभेदेन नान्वयः । प्रकारतावच्छेदकभेदस्य विशेष्यतावच्छेदकेऽभावात् । नापि नीलभेदे स्वप्रतियोगिकत्वसम्बन्धेनान्वयः । उद्देश्यतावच्छेदके नीले
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy