SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नीलं जलमित्यादिवाक्यस्यापि प्रामाण्यापत्तिः। जले द्वित्वादिना जले नास्तीति कथं गेलं जलमित्यस्य प्रामाण्यमित्यत आह-द्वित्वादिति । भेदघटोभयं नास्ति पृथिवीवृत्तित्वविशिष्टभेदो नास्तीति प्रतीतिविषयीभूतस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य पृथिवीवृत्तित्वभेदत्वोभयधर्मावच्छिन्नप्रतियोगिताकस्य च नीतभेदप्रतियोगिकस्याभावस्य जले सत्वेन प्रामाण्यं स्यादित्यर्थः । यदि च भेदत्वनिष्ठप्रतियोगितावच्छेदकताकोऽभावस्तथाऽपि स एव दोषः । उक्ताभावस्यापि भेदत्वनिष्ठप्रतियोगितावच्छेदकताकत्वात्। यदि च भेदत्वपर्याप्तप्रतियोगितावच्छेदकताकोऽभावो विवक्षितः प्रस्ताभावीयप्रतियोगितावच्छेदकतापर्याप्तिश्च न भेवल्वे तदाऽप्रसिद्ध एवेव्यक्तम् । नन प्रतियोगिव्यधिकरणोऽभावो गृह्यते निरुक्ताभावौ च प्रतियोगिभतभेदसमानाधिकर गमेवेति न दोष इति चेत्-न । सर्वस्यैव पदार्थस्य प्रतियोगितया प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धेः । स्वप्रतियोगिव्यधिकरण इत्युक्तावननुगमः । बनु- व्यासज्यत्तिधर्मानवच्छिन्नभेदनिष्ठप्रतियोगितानिरूपकोऽभावो गृह्यते निरुक्ताभावस्य व्यासज्यवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकत्वादिति चेत्न । तथाऽपि पृथिवीवृत्तित्वविशिष्टनीलभेदाभावं घटत्वेन नीलभेदाभावं संयोगेन नील भेदाभावञ्चादाय नीलं जलमित्यस्य प्रामाण्यापत्तेरवारणात् । यदि च स्वप्रतियोगिसामानाधिकरण्यस्वतादात्म्यैतदुभयसम्बन्धनाभावविशिष्टभियोऽभावः स्वनिरूपकत्वस्वाश्रयसामानाधिकरण्योभयसम्बन्धेन प्रतियोगित विशिष्टान्यो वाऽभावो गृह्यते। उक्ताभावाश्च नैतादृशा इति न दोषो नाप्यनन् गमो न वाऽप्रसिद्ध इत्युच्यते । तदा पुनरप्यभावविशिष्टघटोभयभेदं प्रतियोगिता विशिष्टघटोभयभेदञ्चादाय निरुक्ताभावानामपि ग्रहणसम्भवेन दोष एवेति चेत्--अनोच्यते । अभावविशिष्टत्वप्रतियोगिताविशिष्टत्वपर्याप्तप्रतियोगितावच्छेदकताकभेदस्य ग्रहणेनोभयभेदस्य निरस
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy