________________
व्युत्पत्तिवादः
३५०
[ आख्याते
निरस्तम् । व्यापकताघटितकारणतायाः साध्यतामपेक्ष्या गरीयस्या एवोक्तरीत्या प्रवर्त्तकत्वादिसंभवात् । तादृशसाधनताशरीरे व्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात्तद्ग्रहे विशिष्य तदुप - स्थित्यनुपस्थित्यनुपयोगाच्चेति ।
केचित्तु विजातीय स्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठयागादिजन्यतावच्छेदकसम्बधः । तथा च वैजात्यस्य सम्बन्धघटकतयैव व्यापकताशरीरे निवेशान्नोपस्थित्यपेक्षा । न वा कारणताविघटकव्यभिचारावकाश इत्याहुः ।
तदसत्। विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंबन्धघटितत्र्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिबाहुल्यप्रसङ्गात् । तादृशकार्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाप्रत्यायितत्वात् । तत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानानुपपत्तेश्च ।
न चेष्टतावच्छेदकत्वोपलक्षितस्वर्गत्वावच्छिन्ने कारणताघटकाधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया । आकाङ्क्षावशाच्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपितसमवायस्य संबन्धतया भानात्तादृशकार्य संबन्धघटितकारणताया: शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेण शक्तिरिति न काचिदनुपपत्तिरिति वाच्यम् । एवं सति संसर्ग तात्पर्यज्ञानानुरोधेन तादृशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् । न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभाननियामकम् । तत्रापि च संसर्गः संसर्ग एव न तु विशेषणमिति न ज्ञानापेक्षेति वाच्यम् । विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्परवग्रहस्य शाब्दबोधात्पूर्वमसंभवात् । तत्तत्संबन्धविषयतानिरूपितविशेषरणादिविषयताशालिबोधपरत्वज्ञानस्यैव हेतुतया तत्र संबन्धस्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनि