SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ यागसाध्यताः ] जयाऽलङ्कृतः ३५१ रूपितसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे 'स्वर्गत्वस्या - श्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमसामर्थ्यादसंभवाच्चे 'त्यादिमिश्र 'ग्रन्थविरोधः । यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारणताघटक कार्यतावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंबन्धेन कार्य निष्ठाभावाप्रतियोगित्वस्य कारणताशरीरे निवेश्यत्वादिति - तदप्यसत् । कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीयतया तदुपस्थित्यपेक्षा धौव्यात् । न च संबन्धसंकोचे प्रमेयत्वेनैव कार्यप्रवेशः संभवतीति वाच्यम् । विजातीयस्वर्गवन्निष्ठाभावप्रतियोगितात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीयस्वर्गीयसमवायसंबन्धेन प्रमेयवन्निष्ठाभावप्रतियोगितात्वरूपगुरुधर्मावच्छिन्नाभावाप्रसिद्धेः । एतेन स्वर्गत्वमेव यागजन्यतावच्छेदकमवच्छेदकताघटकसमवायसंबन्धसंकोचे न व्यभिचार इत्यपि निरस्तम् । तादृशसंबन्धविशेषणेष्टतावच्छेदकविशिष्टस्य प्रमाणान्तरावेद्यतया तत्र शक्तिनिवयासंभवात् । न हि समभिव्याहृतफलबोधक पदोपस्थाप्यतावच्छेदकत्वरूपोपलक्षणधर्मेण यथा स्वर्गत्वादीनां शक्तिग्रहे भानं तथोपलक्षणीभूततादृशपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्व निष्ठसमवायादेरपि तत्र भानसंभवः । स्वर्गपदाच्छुद्धसमवायेनैव स्वर्गत्वविशिष्टस्योपस्थितौ विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात् । शुद्धसमवायेन स्वर्गत्वविशिष्टविषयक कामनावतोऽनधिकारप्रसङ्गात् । मीमांसकास्तु 'अहरहः संध्यामुपासीतेत्यादौ नित्यतया नि 'मिश्रेति । मुरारिमिश्रेति यावत् ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy