________________
व्युत्पत्तिवादः
[ कारके स्तोकमोदनस्य पाक इति स्यादेवेति” कति । तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थ
कर्मत्वं घबन्तसमुदायजन्यबोधविषयत्वेन तात्पर्य्यविषयीभूतक्रियाविशेषणवाचकपदानां घञन्तसमानवचनत्वमिति सिद्धान्तः ।
तदर्थकपदोत्तरविभक्त्येति । गीली घटाक्त्यिादौ नीलपदोत्तरविभक्त्या न द्वित्वं नीले प्रतीयते। नीलेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयताया असत्त्वात् । घटपदोत्तरविभक्त्या तु घटे द्वित्वम्प्रतीयत एव घटेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नायाः घटत्वावच्छिन्नविशेष्यतायास्सत्त्वात् । सजः पुरुषः नीलस्येदमित्यादौ राज्ञि नीले च राजपदोत्तरविभक्त्या नीलपदोत्तरविभक्त्या च संख्या प्रतीयते । तत्रत्यप्रकारताया अभेदसम्बन्धावच्छिन्नत्वाभावात् । ननु नीलो घट इत्यादौ नीलघटयोरभेदात् अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नघटत्वावच्छिन्नविशेष्यताया नीलनिष्ठत्वात् । किञ्च नीलत्वनिष्ठप्रकारतानिरूपितायास्तादृश्या अपि नीले सत्त्वात् कथन्न नीले नीलपदोत्तरसंख्या प्रतीयते। किन्च नीलो घट: नीलस्य रूपमिति वाक्यद्वयजन्यसमूहालम्बनबोधे नीलपदोत्तरसुविभक्त्या नीले संख्याप्रत्ययस्स्यात् । तत्र भेदसम्बन्धावच्छिन्नप्रकारताया अपि सत्त्वादिति चेत्अत्रोच्यते । तद्धविच्छिन्नबोधकतत्पदोत्तरविभक्तिप्रयोज्यसंख्यानिष्ठप्रकारतानिरूपिततद्धविच्छिन्नतनिष्ठविशेष्यताकशाब्दबोधे तद्धर्मावच्छिन्नबोधकतत्पदप्रयोज्याभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयतानिरूपकशाब्दसामग्रीप्रयोजिकेत्युच्यते । नीलनिष्ठाया अपि घटत्वावच्छिन्नविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । नीलत्वनिष्ठप्रकारतानिरूपिताया अपि तन्निष्ठविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । समूहालम्बनस्थले षष्ठ्यन्तपदप्रयोज्यायास्तस्याः प्रथमान्तनीलपदप्रयोज्यत्वाभावानोक्तस्थलद्वये दोषः। वेदाः प्रमाणं, सम्पन्नो व्रीहिरित्यादौ प्रमाणत्वे व्रीहित्वे च विशेषणवाचकप