________________
द्यन्तसमुदायप्रत्यययोरव्यवहितपूर्वापरीभावस्य समानविभक्तिकयोस्तादृशसमुदायपदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षात्वोपगमे दर्शिताधिकरणार्थकल्युट्प्रत्ययस्थलीयातिप्रसङ्गस्य दुरुद्धरतया न तत्सम्भवः । अथ अन्तसमुदायस्य पाकाद्यर्थकत्वे घञन्तसमुदायस्य संयोगविभागत्वादिविशिष्टावाचकत्वं व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वनिराकरणं दीधितिकृतां विरु द्रमिति चेत्का क्षतिः। न हि कस्य चिद्ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् । एवं च यत्र धातुमात्रस्यैव पाकादौ तात्पर्य तत्र तद्विशेषणवाचकपदाद्वितीयैव यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्य तत्र तादृशपदं तथाविधकृदन्तसमुदायसमानविभक्तिकमेव । सयुक्त कातन्त्रपरिशिष्टकृता "कथं स्तोकः पाकः कृदन्तविशेषणत्वात् । धात्वर्थंकाधिकरण्ये तु
क्त्यर्थानन्वये शोभनाबभेदान्वये चेत्यर्थः । नैमित्तिकसंज्ञात्वनिराकरणमिति । जात्यवच्छिन्ननिरूपितशक्तिमती संज्ञा नैमित्तिकसंज्ञेति तद्भावः । विरुद्धमिति । तत्र शक्तेः स्वीकारादिति भावः । एवञ्चेति । घन्तपाकादिशब्दस्यापि पूर्वोक्त युक्त्या पाकादौ शक्तेस्सिद्धौ इत्यर्थः। यत्र धातुमात्रस्यैव पाकादावित्यादि न च धातुमात्रस्य पाकादौ तात्पर्यो सुबर्थसंख्याकर्मत्वादेरन्वयापत्तिः। पाकस्य प्रकृत्यर्थत्वाभावात् । घअन्तस्य पाकादौ तात्पर्यो। विभक्त्यर्थान्वयोपप तावपि द्वितीयान्तत्वानुपपत्तिरुभयोस्तत्र तात्पर्येऽन्वयबोधानुपपत्तिरिति वाच्यम् । यत्र धातुमात्रस्यैव पाकादौ तात्पर्य तत्र' विभक्त्यर्थस्याविवक्षवात एव द्वितीयान्तपदसमभिव्याहारे प्रथमान्त एव पाकशब्दः । यत्र विभक्त्यर्थस्य विवक्षा तत्र घजन्तस्यैव पाकादौ तात्पर्य्यम् । तत्र घअन्तसमानवि भक्तिकमेव स्तोकादिपदमिति व्यवस्था। धात्वर्थंकाधिकरण्ये विति । धातुजन्यबोधविषयत्वेन तात्पर्य्यविषयीभूतक्रियाविशेषणानां