SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शोभनाद्यभेदान्वयबोधानुपपत्तिः विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वात् । कृत्येकदेशसाधारणतादृशविकिप्रकृतित्वस्य प्रयोजकत्वे तत्र ल्युडादेरधिकरणपरत्वेऽपि तथाविधान्वयबोधापत्तेः कस्यचित्प्रतिवन्धकतां कल्पयित्वा तद्वारणे च गौरवात्। न चैवमुपकुम्मा पिप्पल्यादिरूपपूर्वपदार्थप्रधानसमासपदात्कुम्भसमीपपिप्पल्यर्द्धादौ विभक्त्यर्थान्वयस्य प्रातिपदिकान्तरार्थाभेदान्वयस्य चानुपपत्तिः । पूर्वपदस्य समासोत्तर वेभक्त्यप्रकृतित्वादिति वाच्यम् । तदनुरोधेनैव तत्र कुम्भपिप्पल्यादिपदानामेव कुम्भसमीपपिप्पल्य‘दौ लक्षणायाः पूर्वपदस्य तात्पर्य ग्रहमात्रोपयोगितायाश्च स्वीकारात् । है वस्तुतस्तु तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपाोदी प्रत्ययार्थान्वयबोधे तादृशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरी; भावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे समानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोश्च समभित्र्याहारोप्याकाङ्क्षा । तथा सत्यतिप्रसङ्गविरहात् । धात्वर्थपाका दौ प्रत्ययार्थान्वयबोधे प्रातिपदिकान्तरार्थाभेदान्वयबोधे च ल्युड्घजा 'पूर्वपदार्थप्रधानसमासे पूर्वपदार्थे संख्यान्वयानुपपत्तिस्तु न तत्रोतरपदस्यैव विशिष्टार्थे लक्षणायाः पूर्वपदस्य तात्पर्य्यग्राहकत्वस्य च कल्पन त् । वस्तु-- तस्त्वित्यादिकल्पे पूर्वपदार्थप्रधानसमासघटकभिन्नत्वस्यापि पदे निवेशनीयत्वाच्च । एवमित्यस्य भावानुशिष्टल्युडन्तसमुदाये शक्त्यकल्प' इत्यर्थः । कस्यचित्प्रतिबन्धकताल्पयित्वेति-धात्वर्थे शोभनाद्यभेदान्वयवाधे धातत्तरवत्ति प्रत्ययम्मिकार्थपरत्वज्ञानस्य प्रतिबन्धकत्वमित्यर्थः न चैवं शोभनम्पचतीत्यादौ पाके शोभनान्वयानापत्तिरिति वाच्यम् । 'द्वतीयान्तभिन्नपदप्रतिपाद्यशोभनेत्यादिनिवेशात् । न चैवमिति । प्रकृत्येकदेशार्थे विभ
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy