________________
. ७३
प्रथमा ]
जयाऽलङ्कृतः न्यत्र विशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्ययार्थविशेषणपाकादेर्न कर्मत्वे विशेषणतयान्वय इति चेत्-तथापि पाकादिविशेषणतया सुवर्थसंख्याया अन्वयसम्भवात्। यत्र पाककर्नादेद्वित्वादिकं बाधितं पाकादेव तदबाधितं तत्र पर्चन्तौ पश्यति पचमानौ पश्यतीत्यादिप्रयोगप्रसङ्गस्य दुर्वारत्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानस्य प्रतिबन्धकतामुपगम्यैतादृशातिप्रसङ्गवारणे च गौरवात् । एवं शोभनं पचनमित्यादौ धातुमात्रेण पाकाद्युपस्थितौ च तत्र
प्रयोजकत्वम् । तस्योपस्थितस्येत्यस्यार्थे उपस्थितिविषयत्वेऽन्वयस्तथा चैकनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितिविषयत्ववतोऽन्यनिष्ठविशेष्यतानिरूपितप्रकारताश्रयत्वन्नेत्यर्थः। तथा च शत्राद्यर्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रपोजकोपस्थितिविषयत्ववत: पाकस्य विभक्त्यर्थकर्मत्वनिष्ठविशेष्यतानिरू पतशाब्दबोधीयप्रकारताश्रयत्वन्न स्यादिति तात्पर्यम् । सकृदुच्चरितस्सकृदेवार्थम्बोधयतीति न्यायादिति भावः । उभयत्रान्वयबोधे आकाङ्क्षाविरहाच्च । र्धामपारतन्त्र्येण परं घटो नास्तीत्यादावभावे तथाविधस्य घटत्वस्यान्वयः । तत्र तादृशान्वयबोधप्रयोजकाकाङ्क्षायाः कल्पनात् । तथाऽपोति । विशेषणतयान्यत्रान्वयस्याव्युत्पन्नतया दोषाभावेऽपीत्यर्थः ।
तत्रान्यस्यान्वये बाधकाभावाद्दोषमाह-पाकादिविशेषणतयेत्यादि । धातूपस्थाप्येत्यादि । राजद्वयसम्बन्ध्येकपुरुषतात्पर्येण राजपदार्थे द्वित्वान्वये राजपरुषाविति प्रयोगापत्तिस्तु न तत्पदार्थधाम्मिकसुबर्थान्वये तत्पदार्थान्वितार्थबोधकतदव्यवहितोत्तरसुप्भिन्नपदम्मिकार्थपरत्वज्ञानम्प्रतिबन्धकमित्यस्य कल्पनात् । घट पटावित्यादिद्वन्द्वस्थले द्वन्द्वघटकसर्वपदार्थे संख्यान्वयसिद्धये तत्पदार्थान्दितार्थबोधकत्वम्पदे विशेषणम । अर्द्धपिप्पल्यावित्यादौ