________________
७२
[ कारके
व्युत्पत्तिवादः सुब्विभक्त्यप्रकृतित्वात् प्रकृत्येकदेशार्थेऽपि प्रत्ययार्थान्वयोपगमे पचन्तं पश्यतीत्यादितः पचमानं पश्यतीत्यादितश्च पाकादौ द्वितीयाद्यर्थकर्मत्वाद्यन्वयबोधप्रसङ्गात् । एकत्र विशेषणतयोपस्थितस्या
कृत्यर्थत्वम् । न च घान्तपाकादिशब्द इव कृदन्तपाचकादिशब्देऽपि वृत्तिः किन्नोपेयते । कर्तरि कृदितिशास्त्रातिक्रमस्तु भावे घन इति शास्त्रातिक्रमेण तुल्य इति वाच्यम् । पचतीत्याद्यर्थं पचादिधातौ शक्तेः क्लृप्ततया पाचक इत्यत्र एबुल्मात्रे एव शक्तिकल्पनयोपपत्तौ अनन्तपाचकपाठकादिवृत्त्यानुपूर्व्यवच्छिन्ने शक्तिकल्पनायां गौरवात् , कर्तरि कृदित्यनुशासनविरोधाच्च । घजन्तपाकादिशब्दे च भावे धात्वर्थे एव घनो विधानेन भावस्य च धातुत एव लाभादनन्यलभ्यस्यैव शब्दार्थत्वमिति न्यायविरोधात् , धात्व
तिरिक्तशाब्दानुभवविरोधाच्च । शास्त्रस्यापूर्वशक्तिग्रहे तात्पर्याभावात् । घत्रि शक्त्यभावेऽपि शास्त्रविरोधाभावात् । ननु प्रकृल्यान्वितस्वार्थबोधकत्वम्प्रत्ययानामिति नियमेन प्रकृत्यर्थपदेन प्रकृत्येकदेशार्थोऽपि गृह्यत इति पाक इत्यादौ धात्वर्थेऽप्यन्वयेन नियमानुपपत्तिरित्याह-प्रकृत्येकदेशार्थेऽपीत्यादि । सिद्धान्ते धात्वर्थस्य सुप्प्रकृत्यर्थत्वाभावेन दोषाभावात् । एकत्र विशेषणतयोपस्थितस्येत्यादि । पचन्तं पश्यति पचमानं पश्यतीत्यादौ लडर्थविशेषणतयोपस्थितस्य पाकस्यान्यत्र विभक्त्यर्थकर्मत्वादौ विशेषतयान्वयो न स्यादिति न प्रकृत्येकदेशार्थान्वये दोष इति भावः । यथा घटो जातिरित्यादौ घटविशेषणतयोपस्थितस्य घटत्वस्य जातावभेदेन नान्वयः । नन्विदं न युक्तम् । पचतृपचमानेति कृदन्ते शक्तिविरहेण न शत्राद्यर्थकर्तविशेषणतया प्रकृत्यर्थपाकस्योपस्थितिः। किन्तु विशेष्यतयैव पाकस्योपस्थितिरिति न तस्य कर्मत्वादावन्वये व्युत्पत्तिविरोधः । घटो जातिरित्यादौ तु घटत्वविशिष्ट घटे शक्तिसद्भावाद्युक्तमेव घटत्वविशेषणतयोपस्थितिरिति चेत्-न । विशेषणतयेत्यत्र विशेषणता शाब्दबोधीयप्रकारता तृतीयार्थः