SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः ७१ वर्तमानत्वादिविवक्षास्थल इव अर्थबोधस्वरूपयोग्यताप्रयोजिकाकाङ्क्षाशालित्वेनैव तदविवक्षास्थलेऽपि भावाख्यातस्यार्थवत्त्वात् । ___ केनिवासोरिव घान्तस्यापि पाकादौ शक्तिरुपेयते। अन्यथा सुब्विभक्त्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयानुपपत्तेः । प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तेर्धातूनां च कत्वोपपत्तिरिति भावः । ननु वर्तमानकालस्याप्यविवक्षास्थले बोधात् कथं तत्र कर्मत्वमित्यत आह-वर्तमानत्वादिविवक्षास्थल इवेत्यादि । क्विक्षाया अभाबेन बोधाभावेऽपि बोधप्रयोजकाकाङ्क्षाशालित्वेन सार्थकत्वोपपत्तिरिति भावः । अन्यथेति । अनन्तपाकादिशब्दे शक्त्यभाव इत्यर्थः । कर्मत्वादीनामित्यत्र षष्ठयाः पाकादावित्यत्र सप्तम्याश्च विषयतैवार्थस्तथा संख्या कर्मत्वनिष्ठविषयतानिरूपितपाकनिष्ठविषयतानिरूपकबोधानुपपत्तिरित्यर्थः । न तु प्रतियोगित्वं षष्ठ्यर्थोऽनुयोगित्वं सप्तम्यर्थः । पाकं पश्येत्यादौ कर्मत्वप्रतियोगिकानुयोगिकशाब्दबोधस्यानुदयात् । धातूनाञ्च सुब्विभक्त्यप्रकृतित्वादिति । पाक इत्यत्र घअन्तस्यैव सुब्विभक्तिप्रकृतित्वादिति भावः । सुप्पदं पाकोऽस्तीत्यत्रत्य तिङोऽप्युपलक्षणम् । तदर्थस्यापि प्रथमाविभक्तिप्रकृत्यर्थे एवान्वयात् । तत्प्रकृतित्वञ्च तनिष्ठविधेयतानिरूपितोद्देश्यताश्रयत्वम् । प्रकृत्यर्थत्वञ्च न प्रकृतिनिष्ठवृत्तिनिरूपकत्वं कृदन्तपाठकपाठकादिरूपा या सुब्विभक्तिप्रकृतिस्तत्र वृत्तिविरहेण प्रकृत्यप्रिसिद्धस्तद्घटकप्रत्ययनिष्ठवृत्तिमादाय समन्वये तु धातुनिष्ठवृत्तिनिरूपकधात्वर्थेऽपि प्रकृत्यर्थत्वापत्तेश्च । किन्तु प्रकृतिविशिष्टवृत्तिनिरूपकत्वमेव तत् । वैशिष्ट्यञ्च स्वपर्याप्तत्वस्वचरमावयवपर्याप्तत्वान्यतरसम्बन्धेन । पाचकादिघटकधातुनिष्ठवृत्तौ वैशिट्यविरहान्न दोषः । क्विबन्तस्थले प्रातिपदिकसंज्ञासमये क्विपोऽप्यनुसन्धानेन क्विबन्ते एवोद्देश्यतायास्सत्त्वेन तस्यैव प्रकृतित्वेन धातुनिष्ठवृत्तेस्तत्पर्याप्तत्वाभावेन न धात्वर्थस्य सुष्प्र
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy