SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्थीयत इत्यादौ श्राख्यातस्यापि वर्त्तमानत्वार्थकतया सार्थकत्वात् । 7. न च वर्त्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरिति वाच्यम् । आख्यातस्तस्यापि विसम्वादित्वभयेन वर्तमानबोधकत्वेनाख्यातविषयकभगवदिच्छायां लटो वर्तमानबोधकत्वबोधके वर्तमाने लडिति सूत्रे चाप्रामाण्यभयेनाप्रवेशस्यावश्यकत्वेन शक्तिमत्वरूपसार्थकत्वस्याभावेन क्रियाविशेषणे कर्म्मत्वानापत्तिरिति चेत् - मैवम् । एतदभिप्रायणैवार्थबोधस्वरूपयोग्यताप्रयोजकाकाङ्क्षाशालित्वरूप सार्थकत्वस्य वक्ष्यमाणत्वात् बोधस्वरूपयोग्यतारूपार्थबोधकताया श्राकाङ्क्षाविवक्षाद्यभावस्थलेऽपि सत्त्वेन भगवदिच्छायाः सूत्रस्य च विसम्वादित्वाप्रामाण्ययोरप्रसक्तेः । वर्तमानत्वप्रकारकस्थितिविशेष्यकबोधं प्रति स्थाधातूत्तरवर्त्याख्यातत्वरूपाकाङ्क्षाज्ञानं कारणं तादृश्याश्चाकाङ्क्षाया वर्तमानत्वविवक्षास्थल इवाविवक्षास्थलेऽपि सत्त्वे नोभयत्राख्यातस्य सार्थकत्वात् । क्रियाविशेषणस्य कर्म्मत्वोपपत्तिः । पाक इत्यादौ च घञर्थनिष्ठविषयतानिरूपितधात्वर्थनिष्ठविषयताकबोधस्याभावेन तादृशबोधप्रयोजकाकाङ्क्षाया अप्यभावेनार्थवत्वविरहान्न तत्र कर्म्मत्वम् । न च तादृशार्थबोधप्रयोज काकाङ्क्षाया प्रभावेऽपि एकत्वनिष्ठविषयतानिरूपितपाकत्वावच्छिन्नविषयतानिरूपकबोधप्रयोजिका पचूपदोत्तरघञ्पदोत्तरसुपदत्वरूपाऽऽकाङ्क्षा तच्छालित्वरूपसार्थकत्वं धञो वर्तेत एवेति वाच्यम् । स्वार्थनिष्ठविषयतानिरूपितप्रकृत्यर्थनिष्ठविषयताप्रयोजकाकाङ्क्षाशालित्वमेव प्रत्यये सार्थकत्वमित्यस्य स्वीकारात् । स्वं सार्थकत्वेन विवक्षितः प्रत्ययः प्रकृते घञर्थविषयकबोधस्यैव पाकपदादभावेन निरुक्तसार्थकत्वस्याभावादिति दिक् । ननु स्तोकं स्थीयत इत्यादिभावाख्यातस्थलेऽपि कर्तृकर्म्मभावाबोधकत्वेनाख्यातस्य सार्थकत्वाभावात् । कथं स्तोकस्य कर्म्मत्वमित्यत आहवर्तमानार्थकतयेत्यादि । कर्त्राद्यबोधकत्वेऽपि वर्तमानकालबोधकत्वेनैव सार्थ
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy