________________
प्रथमा ]
जयाऽलङ्कृतः त्वातिदेशात् । न चैवं स्तोक: पाक इत्यादावपि द्वितीयाप्रसङ्गस्तत्रापि स्तोकादेः क्रियायामेव विशेषणत्वात् । भौवकृतां प्रयोगसाधुत्वमात्रार्थकतया धातुनैव तत्र पाकादिप्रतिपादनादिति वाच्यम्। क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् । स्तोकं
धात्वर्थयोः फलव्यापारयोस्सामानाधिकरण्यादिति वाच्यम् । गौरवात् स्तोक: पच्यत इति स्तोकरूपे कर्मणि लकारापत्तेश्च । वस्तुतस्तु वचनकल्पनगौरवापेक्षया निरुक्तगौरवस्याल्पत्वम् । लः कर्मणीत्यत्र कत॒साहचर्येण धात्वर्थे भेदायिनि कर्मण्येव लकारो विधीयत इति स्तोकादिकर्मणि लकारापत्तिरपि न, कर्मत्वातिदेशेऽपि लकारापत्तिवारणस्य प्रकान्तरेणाशक्यत्वाच्चेति वैयाकरणमतमेव युक्तम्।
क्रियापदस्येत्यादि । पाक इत्यत्र भावानुशिष्टघो निरर्थकत्वेन पाकक्रियायास्सार्थकप्रत्य यान्तधातूपस्थाप्यत्वाभावान्न स्तोकः पाक इत्यादौ स्तोकस्य कर्मत्वम् । ननु शक्तिमत्वञ्चेत्सार्थकत्वं तहि करणाधिकरणयोः रागो रङ्ग इत्यादौ घञा बोधेन घञ्त्वेन करणाधिकरणनिरूपितशक्तताया प्रावश्यकत्वेन घमात्रस्य शक्तिमत्वे न निरर्थकघोप्रसिद्धिः। न चाकर्तरि व कारके संज्ञायामित्यनुशासने संज्ञायामित्युक्त्या संज्ञास्थघञ एव शक्ति
त्वन्नासंज्ञास्थस्य पाक इत्यादाविति वाच्यम् । भावे घञ् इत्यनुशासनेन पञ्मात्रस्य भावनिरूपितशक्तिमत्वस्य बोधनात् । संज्ञायामित्यस्य को नाभो लब्ध इत्याद्यनुरोधेन प्रायिकत्वाच्च । न चाबोधकस्य पाकशब्दटकघजो बोधकत्वेन भगवदिच्छाविषयत्वे भगवदिच्छाया अविसम्वादत्वानापत्त्या घमात्रस्य भावबोधकत्वबोधकस्य भावे घञ् इत्यस्याप्राTण्यापत्त्या चाबोधकपा कशब्दघटकघभिन्नस्यैव घनो भगवदिच्छायां वे घञ् इति सूत्रे च प्रवेशान्न तत्रत्यघञः शक्तिमत्वरूपसार्थकत्वमिति च्यम् । तथा सति स्तोकं स्थीयत इत्यादौ वर्तमानत्वाविवक्षास्थले य