________________
व्युत्पत्तिवादः [ कारके संसर्गमर्यादया भासते यथा नीलो घटो नीलघटमानयेत्यादौ घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य । नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात्। स्वसमानविभ
पदप्रयोज्यप्रकारतानिरूपितत्वविशिष्टमाकाङ्क्षाप्रयोज्यत्वं-विधीयते । प्रातिपदिकवैशिष्टयं पूर्ववत् । निरूपितत्ववैशिष्टयं सामानाधिकरण्येन । न च क्रियाविशेषणस्थलीयाभेदसंसर्गताया असंग्रह इति वाच्यम् । इप्टापत्तेः । तत्र नियामकान्तरस्यैव वक्ष्यमाणत्वात् । न चापिप्पलीत्यादिपूर्वपदार्थप्रधानसमासे व्यभिचारस्तत्रैकदेशिसमासस्य प्रत्याख्यानेन पूर्वपदार्थार्द्धानुयोगिकपिप्पलीरूपोत्तरपदार्थप्रतियोगिकाभेदस्य संसर्गमर्यादया भासमानत्वादिति बाच्चं, अन्तरसम्बन्धस्थाने.. स्वाव्यवहितोत्तरत्वस्य पूर्वोक्तसम्बन्धद्वयसहितस्यान्यतमत्वेन प्रवेशनीयत्वात् । पिप्पल्यादिपदस्यैव पिप्पल्य‘दौ लक्षणा । पूर्वपदञ्च तत्रैव तात्पर्यग्राहकमित्यस्य वक्ष्यमाणत्वेनाभेदस्याकाङ्क्षाभास्थस्वाभाबाच्च । __न तु विरुद्धविभक्तिमदिति । विरत्वज्य स्वप्रकृतिकविभक्त्यपेक्षया बोध्यम् । तत्त्वञ्च तादृशविभक्तिनिष्ठो यः प्रथमात्वाद्यन्यतमस्तदभाववत्त्वम् । यथा नीलस्य घट इत्यादौ घटप्रकृतिकसुविभक्तिनिष्ठः प्रथमात्वाद्यन्यतमः प्रथमात्वन्तदभाववत्त्वं नीलप्रकृतिकङस्विभक्तौ ।।
तत्र हेतुमाह--नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वादिति । प्रयोज्यत्वं सप्तम्यर्थः । तस्य स्वप्रकारकत्वसम्बन्धेनानुभवेऽन्वयः । अनुभवेविरुद्धत्वञ्चानुभवविषयत्वाभावरूपम् । तथा च नीलघटाभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्व प्रकारको यः सर्वानुभवस्तद्विषयत्वाभालाटिनार्थः । नीलबहाभेदान्वयबोधो नीलस्य घट इत्यादिवाक्यप्रयोज्य... इत्याकारकानुभवाभावादिति भावः । प्रातिपदिकवैशिष्ट्यनियामकसम्बन्धघटकस्वसमानविनक्तिकत्वं किमित्याशङ्कायामाह