SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] . जयाऽलङ्कृतः क्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम्। साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीकत्वं साजा --स्वसमानविर्भाक्तकत्वञ्चेति । विभक्तिविभाजकेति । स्वनिष्ठो यो विभक्तिविभाजकः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्वमित्यर्थः । ननु किमिदं विभक्तिविभाजकत्वम् ? न तावद्विभक्तित्वविशिष्टत्वं स्वव्याप्यत्वस्वव्या' याव्याप्यत्वोभयसम्बन्धेन । विभक्तित्वव्याप्यसुप्त्वव्याप्यत्वेन प्रथमात्वादेविभक्तिविभाजकत्वानापत्तेः । नाच विभक्तित्वव्याप्यत्वमेव विभक्तिपिभाजकत्वमिति प्रथमात्वादौ नाव्याप्तिरिति वाच्यं, सुत्वादीनामपि विभक्तित्वव्याप्यत्वेन तत्त्वापत्तेः । न चेष्टापतिः । आकाशत्वादावपि तथा सति पदार्थविभाजकत्वस्यैप्टव्यतया आकारात्मसम्मान पदार्थविभानकोपाधि रिति मुक्तावलीप्रत्यक्षखण्डोक्तग्रन्थस्यासङ्गत्यापत्तेः । नन्वत्र विभक्तिपः सुप्परम् । तथा च सुब्विभाजकधमणेत्यर्थः । सुब्बिभाजकत्वञ्च सुप्ताव्याप्यत्वे सति सुप्त्वव्याप्यत्वमिति न प्रथमात्वादावव्याप्तिरितिचेत्-, । सुप्त्वव्याप्यसर्वनामस्थानत्वव्याप्यत्वेन तस्या दुर्वारत्वात् । न च नपुंगकप्रकृतिकस्वादौ सर्वनामस्थानत्वाभाववति प्रथमात्वस्य सत्त्वेन तदव्याप्यताददोष इति वाच्यं, टादिसुप्पय॑न्तस्थितेन सुप्त्वव्याप्येनाऽऽप्त्वेन व्याप्यत्वात् तृतीयात्वादावप्याप्तेर्दुरित्वात् । ___अचोच्यते--गुप्त्वविशिष्टत्वं सुप्विभाजकत्वम् । वैशिष्ट्यञ्च स्वव्याप्यत्वस्वव्याप्याव्या'यत्वोभयसम्बन्धेन । द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्यायविशिष्टभिन्न वमपि देयम् । तत्र वैशिष्टचं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन । प्रथमात्वादौ सुप्त्वस्य स्वव्याप्यत्वं स्वव्याप्यविशिष्टभिन्नं यत्स्वव्याप्यन्तदव्याप्यत्वमप्यस्तीति लक्षणसमन्वयः । प्राप्त्वं तु तृतीया वविशिष्टमेव । उदासीने घटत्वादावतिव्याप्तिवारणाय प्रथमः सम्बन्धः । न च स्वस्यापि स्वव्याप्यत्वेन सुप्त्वेऽतिव्याप्तिः । अाद्य
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy