SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ जयाऽलङ्कृतः योग्यनुयोगिविषयविषयिभावादिः । प्रभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्त्तिना च पदेनोपस्थापितस्यैव प्रथमा ] ७ न्यत्वाभावस्तथापि विशिष्टबुद्धित्वहेतुकानुमितिसिद्धस्य नीलो घट इत्यादौ नीलविशिष्टघबुद्धौ सम्बन्धावगाहित्वस्यान्यथाऽनुपपत्त्या तस्य सम्बन्धत्वं कल्प्यते नैयायिकैरिति भावः । दुरधिगमेऽस्मिन् शास्त्रे शिष्यस्य झटिति प्रवेशायाभेदस्य सूचीकटाहन्यायेनोद्देशक्रमेण च संसर्गतया भानस्थलं तावदाह -- प्रातिपदिकार्थे इत्यादि । अनुयोगित्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्य वृत्तित्वसम्बन्धेन, तस्य चाभेदे निरूपकत्वसम्बन्धेनान्वयः । उपस्थापितस्येत्यत्र वृत्तित्वसम्बन्धेन प्रकृत्यर्थान्वितषष्ठ्यर्थप्रतियोगित्वस्य च निरूपकत्वसम्बन्धेन तत्रैवाभेदे - ऽन्वयः । तथा च प्रातिपदिकार्थनिष्ठानुयोगितानिरूपकः स्वसमानविभक्तिकस्वाव्यवहितपूर्वान्नतरपदोपस्थाप्यार्थनिष्ठप्रतियोगितानिरूपकाभेद काङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थः । अनुगमवारणाय प्रातिपदिकविशिष्टोऽभेद आकाक्षाप्रयोज्यसंसर्गताश्रय इत्वर्थ इति वक्तव्यम् शिष्टचच्च स्वप्रयोज्यविशेष्यतानिरूपकत्वस्व विशिष्टपदप्रयोज्यप्रकारतानिरूपकत्वोभयसम्बन्धेन । तत्र वैशिष्ट्यं स्वप्रकृतिकविभक्तिसजातीयविभक्ति- . प्रकृतित्वस्वाव्यवहित्पूर्ववृत्तित्वान्यतरसम्बन्धेन । नीलो घट इत्यादौ घटरूपप्रातिपदिकविशि'टो भेदः । तत्र घटरूपप्रातिपदिकस्य नीलेऽन्यतरघटक प्राद्यः सम्बन्धः । नी नघट इत्यादौ समासे च घटस्य नीले द्वितीयः सः । नाभेदत्वावच्छेदेन प्रातिपदिकविशिष्टाकाङ्क्षाप्रयोज्यसंसर्गतावत्त्वं विधीयते । ऋत्र प्रातिपदिक वैशिष्ट्यं पूर्वोक्तसम्बन्धेनैव संसर्गतायां बोध्यम् । तथा सत्यभेदत्वव्यापकत्वं तादृशसंसर्गतारूपविधेये प्रतीयेत । तच्च न सम्भवति । स्तोकं पचतीत्यादिक्रयाविशेषणस्थले व्यभिचारात् । किन्तु प्रातिपदिकप्रयोज्यविशेष्यतानिरूपिताभेदनिष्ठसंसर्ग तात्वावच्छेदेन प्रातिपदिकविशिष्ट आ -
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy