SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके भासते । स च कचिदभेदः । कचिच्च तदतिरिक्त एवाधाराधेयप्रति त्वोद्देश्यतावच्छेदके प्रवेशानहत्वात्। घटो सास्तीति नेत्यत्र घटसत्ताभावाभावः प्रतीयते । नञ्द्वयनिष्ठवृत्तिज्ञानयोः समानाकारकतया तदीयविषयतयोरभावद्वयोपस्थितिद्वयविषयताप्रयोजकतया नअर्थाभावत्वनिष्ठप्रकारताप्रयोजकोप स्थितीयविषयताप्रयोजकवृत्तिज्ञानीयविषयताया अपरनअर्थाभावनिष्ठविशेष्यताप्रयोजकोपस्थितिविषयताप्रयोजकवत्तिज्ञानीयविषयतानिरूपितत्वाभावविरहेण स्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्यासंग्रहस्तु नम्पाद्यः । तत्र घटसत्ताभावत्वस्यैवावच्छिन्नप्रतियोगितयाऽन्वयेन तनिष्ठप्रकारताप्रयोजकत्वस्य परम्परया घटनिष्ठवृत्तिज्ञानीयविषयताया अपि सत्त्वेन तस्याश्चाभावनिष्ठविशेष्यताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितत्वविरहेणापत्त्यभावादिति विक। स च संसर्गः क इति जिज्ञासायामाह--क्वचिदभेद इत्यादि । आधाराधेय इत्यादेः प्रत्येक भावेत्यत्रान्वयेन प्राधाराधेयभावः प्रतियोग्यनुयोगिभावो विषयविषयिभाव इत्यर्थः । यद्यपि न्यायसिद्धान्ते प्राधाराधेयभाव इत्यादेः समुदितस्य न सम्बन्धता क्वचिदस्ति तथापि वैयाकरणमतेनास्य ग्रन्थस्य सत्त्वान्नासंगतिः । तन्मते 'सम्बन्धो हि सम्बन्धिभ्यां भिन्नः, द्विष्ठ' इत्यादिभाष्यात् प्रतियोग्यनुयोगिनिष्ठस्यैव आधारतानिरूपिताधेयतेत्यादि क्रमेण समुदायस्य सम्बन्धत्वात् । भूतले घटः, घटो नास्ति, घटज्ञानमित्यादौ क्रमेण तेषां सम्बन्धानां प्रतीतिः । नप न्यायमतेनैव आधारत्वमाधेयत्वं प्रतियोगित्वमनयोगित्वं विषयत्वं विषयित्वं सम्बन्ध इत्यर्थसम्भवेनायं ग्रन्थोऽस्तु स्वरूपसम्बन्धेनाधारे निरूपकत्वसम्बन्धेनाधेये सत्त्वेनाधारत्वादेरपि द्विष्ठत्वस्योपपादनसम्भवादिति वाच्यं, अनुयोगिनिष्ठस्यैव सम्बन्धत्वेनाधेयत्वानुयोगित्वविषयित्वानां सम्बन्धत्वेऽप्याधारत्वप्रतियोगित्वविघयत्वानां संसर्गतया क्वचिदप्यभानात् । यद्यपि द्विष्ठत्वाभावेनाभेदस्य वैयाकरणमते सम्ब
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy