SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३४४ व्युत्पत्तिवादः [ पाख्याते उपगन्तव्यम् । तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभावबोधोपगमेनोपपत्तिरिति वाच्यम् । पाके तत्कर्मकत्वाभावबोधोपगमे तादृशपाकानुकूलानागतकृतेः कर्तरि भानस्योपगन्तव्यतया तदुत्तरं कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शितवाक्यस्य प्रामाण्योपपादनासंभवात् । अगत्या तु यत्कर्मको यत्कर्तृक: पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनञ्पदवद्वाक्यस्यायोग्यतोपगम्यते। केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति । तात्पर्यसत्त्वे एकेनापि नञाऽभावद्वयबोधनसंभवात् । न चैवं तण्डुलमानं पचति पक्ष्यति वा चैत्रेऽपि तण्डुलमयं न पचति न पक्ष्यतीति प्रयोग: स्यात् । तत्तण्डुलाकर्मकपाकानुकूलवर्तमानादिकृत्यभावाबाधादिति वाच्यम् । यतः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकतत्वाभावबोधकत्वं नञः आकाशं न पचति घट इत्यादावपि न स्वीक्रियते तादृशबोधजनकताया अव्युत्पन्नत्वात् येनोक्तातिप्रसंगः स्यात् । किन्तु पाक आकाशाकर्मकः पाककृत्यभाववान् घट इत्यादिसमूहालम्बनबोध एवोक्तस्थले च चैत्रे पाककर्तत्वाभावबोधान्न प्रामाण्यप्रसंगः । अस्तु वा तत्राभावान्वितक्रियाकर्तृत्वाभावविषयकोऽसमूहालम्बनरूप एव बोधस्तथापि न दर्शितातिप्रसंगः । तादृशबोधेन्वयितावच्छेदकावच्छेदेन प्रथमाभावभाननियमात् । पाकत्वावच्छेदेन च तण्डुलादिकर्मकत्वाभावान्वये योग्यताविरहात् । अन्ध आकाशं न पश्यतीत्यादावपीदृशी गतिः । अथ यत्तण्डुलादिकर्मको यत्पुरुषकर्तृकः पाकोऽप्रसिद्धस्तत्पुरुषेऽन्यकर्मकपाककर्तृत्वस्य तण्डुलादौ चान्यपुरुषपच्यमानत्वादेर्धमदशायां तण्डुलमयं न पक्ष्यतीत्यादिवाक्यस्यबोधकताया अनुभवसिद्धत्वेनापाकर्तुमशक्यत्वानोक्तप्रकारः साधीयान् । विरोधिनिश्चयसत्त्वेन तत्पुरुषे पाककर्तृत्वसामा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy