________________
लुट्प्रत्ययः ] जयाऽलङ्कृतः
३४३ कालावच्छिन्नत्वभानमावश्यकम् । अन्यथा पक्ष्यत्यपि वर्तमानत्तपाककृत्यभावमादाय न पक्ष्यतीत्यादिप्रयोगप्रसङ्गात्। न च पक्ष्यत्यप्यनागतयत्किंचित्कालावच्छेदेन वर्तमानमभावमादाय न पक्ष्यतीति प्रयोगो दुर्वार एवेति वाच्यम्। अनागतकालावच्छिन्नत्वं हि तत्र वर्तमानंक्षणध्वंसावच्छिन्नत्वम् । तादृशध्वंसनिष्ठा अवच्छेदकताऽनवच्छिन्ना ग्राह्या, अनागतकृतिमति च पंसि तदभाववृत्तौ वतमानक्षणध्वंसरूपः कालः प्रतियोगी वृत्तावप्यवच्छेदक इति विरोधभञ्जनाय ताशकृत्यनवच्छेदकावान्तरकालावच्छिन्न एवावच्छेदक उपेय इति नोक्तातिप्रसङ्ग इत्युक्तयुक्त्या अनागतत्वस्य यथा लुडाद्यर्थत्वं तथाऽद्य पक्ष्यति न पक्तत्यत्रानद्यतनकालावच्छिन्नत्वस्याभावेऽभाने श्वः पक्ष्यत्यप्यद्यतनानागतकालावच्छिन्नपाककृत्यभावमादाय न पक्तेति प्रयोगप्रसङ्गेन लुटोऽनद्यतनार्थत्वमावश्यकम्। अनागतानद्यतनकालावच्छिन्नत्वमपि उक्तरीत्यातिप्रसङ्गवारणाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदकताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भासते ध्वंस एव पदार्थ इत्यवधेयम् ।
अथ नञ्समभिव्याहारस्थलेऽपि कृतावेव कालान्वयोऽस्तु । अनागतकृतिश्च महाप्रलयस्याप्रामाणिकतया सर्वत्रैव प्रसिद्धयतीति न प्रतियोग्यप्रसिद्धिः। अभावान्वयश्चात्मनि कालानवच्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत्-न । यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीं चैत्र श्रोदनं न पक्ष्यतीति प्रयोगानुपपत्तेः। अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्यप्रसिद्धया तदभावप्रत्यायनासंभवात्। न चाभावे कालान्वयोपगमेपि यत्तण्डुलव्यक्त्यादिकर्मकपाक एवाप्रसिद्धस्तद्वयक्त्यादिपरस्यैतत्तण्डुलं न पक्ष्यतीत्यादिवाक्यस्याप्रमाणत्वापत्तिः । प्रतियोग्यप्रसिद्धेर्दुर्वारत्वादिति तत्र पाके तद्वयक्तिकर्मकत्वाभाव एव ना बोध्यत इति