________________
लिट्प्रत्ययः ] जयाऽलङ्कृतः
३४५ न्याभावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रतीत्यसंभवादिति चेन्न । तत्र तादृशवाक्यस्य एकाभावावगाहिभ्रमजनकत्वोपगमात् । न च सर्वत्रैव तदुपगमौचित्येन प्रयासवैफल्यमिति वाच्यम् । विशेषदर्शिभिरप्रतारकैरपि तथाविधवाक्यप्रयोगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डुलादिकर्मकत्वं तनिष्ठविक्लित्तिजनकत्वं तदपि वा प्रसिद्धमिति कथं पाके तदभावप्रत्यय इति वाच्यम् । विक्लित्त्यादावेव तत्तद्वृत्तित्वाभावबोधोपगमात् । ___अपाक्षीदित्यादौ लुङोऽतीतकालोर्थः । तस्याप्याख्यातसामान्यार्थकृत्यादावन्वयः । तस्य च सम्बन्ध आधेयत्वम् । अथवा कालविशेषणतयैवातीतत्वं लुङोथः । आश्रयतासम्बन्धेन च तस्य कृत्यादावन्वयः कालान्तर्भावस्य व्यर्थत्वात् । अतीतत्वं वर्तमानध्वंसप्रतियोगित्वम् । वस्तुतो वर्तमानध्वंस एव लुङाद्यर्थः । तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः । मध्यदशायामपाक्षीदित्यादिप्रयोगवारणमुक्तरीत्या बोध्यम्।
लङ्प्रत्ययस्यातीतत्ववदनद्यतनत्वमप्यर्थः । अद्य पचत्यपचदित्यप्रयोगात् । 'अभून्नप' इत्यादावनद्यतनत्वसत्त्वेपि तदविवक्षया न लप्रत्ययेन लुङबाधः। अतोप्यनद्यतनत्वबोधकत्वं लङ्प्रत्ययस्यावश्यकम् । स्वरूपसदनद्यतनत्वस्य लङसाधुतानियामकत्वेऽनद्यतनत्वस्य वस्तुसतोऽविवक्षामात्रेणोक्तस्थले लङ्वारणानुपपत्तेः । इदमप्यनद्यतनत्वं प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । अथ वा स्वातन्त्र्येणानद्यतनत्वं न लर्थः किंतु तादृशदिनाद्यक्षणवृत्तिध्वंसप्रतियोगित्वरूपमनद्यतनातीतत्वं विशिष्टमेव ।।
अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिटोर्थः । 'अध्यास्त सर्वतुसुखामयोध्या'मित्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं वक्तुः साक्षात्काराविषयत्वम् ।