SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३४६ व्युत्पत्तिवादः [पाख्याते केचित्तु स्वभिन्नकर्तृकत्वमेव परोक्षत्वमत एव लिडुत्तमपुरुषासंभवेनापरोक्षतायामपि लिटः साधुत्वे 'णलुत्तमो वे'त्यादेझपकत्वमुपायकारोक्तं संगच्छते । अन्यथा निद्रादिदशायां स्वकर्तृकगमनादिक्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वासंगतेरित्याहुः। __'कलिङ्ग दृष्टोसि', 'नाहं कलिङ्गान् जगामे'त्यादावत्यन्तापह्नवस्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिड्विधानात् तादृशज्ञापकबलेन 'व्यातेने किरणावली'मित्यत्र लिट: साधुत्वोपपादनमुपायकृतामयुक्तमेवेति बोध्यम् । अत्यन्तापह्नवश्चाबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपसन्नेव लिट्साधुतानियामकः । लिङलोटोविधिरर्थः। परप्रवृत्त्यर्थं तत्प्रयोगात्। विधिः प्रवर्त्तकज्ञानविषयो धर्मः। स च धर्मो न्यायनये कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्वसहितमिष्टसाधनत्वं च । 'प्रोदनकामः पचेत्स्वर्गकामो यजेते'त्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते। तादृशफलानां च तत्तद्रूपेण लिङादिशक्यतावच्छेदककोटिप्रवेशे शक्त्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनापूर्वफलसाधनबोधानिर्वाहश्चेतीष्टत्वेन तेषामनुगमः । इष्टत्वं समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । अत: 'स्वर्गकामः पचेते'त्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधीन वा तत्तात्पर्येण तथा प्रयोगः प्रामाणिकानाम्। इष्टत्वज्ञानस्याप्रवर्तकत्वेपि शक्यफलानुगमार्थं तस्य शक्यता । वस्तुतस्तु अशक्यस्यैव तस्य शक्यानुगमकता सर्वनामस्थले बुद्धिस्थत्ववत्तेन रूपेण फलानां संकेतविषयतां विनाशक्यैक्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र । अत्र चेष्टत्वस्य शाब्दबोधेऽभानाद्विशिष्टेष्टता
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy