________________
विधिप्रत्ययः ] जयाऽलङ्कृतः
३४७ वच्छेदकस्वर्गवादिप्रकारेण शाब्दबोधोत्पत्त्या विधिवाक्यात्प्रवर्तकज्ञाननिर्वाहः।
यत्तु इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्गत्वावच्छिन्नस्य विध्यर्थंकदेशे इष्टेऽभेदान्वयात्प्रवर्तकज्ञाननिर्वाह इति-तदपि न सत् । वृत्तिशब्दैकदेशे इतरानन्वयनियमात् । स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसाधनताज्ञानस्य हेतुतया अभेदेन स्वर्गादिविशेषितफलसाधनताज्ञानस्यानुपयोगित्वाच्च । अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनताज्ञानमपि स्वर्गत्वादिप्रकारकप्रवृत्तौ हेतुः। अत एव 'स्वर्गकामो यजेते'त्यादित: प्रवृत्तिरिति तु न युक्तम् । स्वर्गत्वप्रकारककामनाया अधिकारत्वानुपपत्तेः । अथेष्टत्वस्य शक्योपलक्षणत्वे तदंशाभाननिर्वाहेपि स्वर्गत्वादेरशक्यस्य भानं न संभवति । अशक्यस्य भानोपगमेतिप्रसङ्गादिति चेत् । स्वर्गवाद्यवच्छिन्ने समभिव्याहृतकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नशक्तिज्ञानस्य स्वर्गत्वादिप्रकारकशाब्दधीहेतुत्वोपगमेतिप्रसङ्गानवकाशात् । वस्तुतस्तादृशकामनाविषयतावच्छेदकत्वोपलक्षितस्वगत्वादिविशिष्टसाधनत्वे शक्तिस्वीकारात्सर्वसामञ्जस्यम् । न च स्वर्गत्वादिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वं न संभवति । स्वर्गत्वादेर्गङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदकतया यागादौ स्वर्गत्वादिविशिष्टसाधनत्वबाधात् न हि जन्यतानवच्छेदकधर्मो जनकत्वनिरूपके विशेषणमिति वाच्यम् । स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिन्ननिरूपितजनकताया यागादावबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभवात् । घटत्वादिविशिष्टवाचकपदघटिताद् घटं द्रव्यत्वेनैव जानातीत्यादिवाक्यात् घटत्वाद्युपलक्षितघटादिविशेष्यकत्वभानवत् ।
न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्र