________________
३४८
व्युत्पत्तिवादः
[ पाख्याते कारकफलेच्छाधीनप्रवृत्त्यनिर्वाह इति शङ्कयम् । वह्नित्वादिप्रकारकेच्छातोपि तृणादिसमवधानेऽभ्रान्तप्रवृत्तेरानुभविकत्वात् । भूयः सुखार्थिनामपि भ्रमं विना क्रियाविशेषे प्रवृत्तेश्च तद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्तकत्वात् । स च धर्मः कार्यतावच्छेदकतया भासतां कार्याशे उपलक्षणतयैव वेत्यन्यदेतत् । न हि वह्नित्वादिकं तृणादिजन्यतावच्छेदकं व्यभिचारिसाधारणत्वात् । न वा भूयस्त्वादिकं कस्यचिजन्यतावच्छेदकमर्थवशसंपन्नत्वात् । एवं सति घटत्वावच्छिन्नफलार्थी तन्त्वादौ कथं न प्रवर्तते ? तन्त्वादेरपि घटत्वाग्रुपलक्षितजन्यसत्त्वादिविशिष्टनिरूपितद्रव्यत्वावच्छिन्नसाधनतावत्त्वादिति चेत्फलानुपधाननिश्चयात्तस्य स्वातन्त्र्येण प्रवृत्तिप्रतिबन्धकत्वात्। फलोपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया घटकामस्तन्तुमुपाददीतेत्यादिर्न प्रयोगः ।
न च तथापि स्वर्गवादेर्यागादिनिष्ठकारणताघटकव्यापकतानिरूपकतानवच्छेदकतया स्वर्गत्वावच्छिन्ननिरूपितव्यापकताघटितकारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपितव्यापकताबोधासंभव इति स्वर्गकाम इत्यादौ विध्यर्थबोधानुपपत्तिदुर्वारैवेति वाच्यम्। स्वरूपसंबन्धरूपाया एव कारणताया विध्यर्थत्वोपगमात् । अन्यथा सिद्धिनिरूपकतानवच्छेदकनियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव स्वर्गकारणत्वम् । नियतोत्तरवर्तितावच्छेदकश्च धर्मो विशिष्य उत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते । नियतोत्तरवर्त्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्मावच्छिन्नतद्वयापाराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरूपकतानवच्छेदकत्वम् । अधिकरणतावैशिष्टयं च स्वाव