SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३२० व्युत्पत्तिवादः [ तद्धिते दिपूर्णिमायोग्यतेत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्ते तद्धितान्तसमुदायरूढिग्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इति वाच्यम् । केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात् । पौषतैषमाघादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य सास्मिन्नित्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात्। न च योगरूढिपक्षे पौषादिपदानां योगार्थरुढ्यर्थाभेदान्वयबोधजनकत्वकल्पनाधिक्येन गौरवमिति वाच्यम्। भवन्मतेऽपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदर्थाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपह्नवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक्। वैष्णवी ऋक् ऐन्द्रं हविरित्यादौ देवतार्थविहिततद्धितस्य तद्देवताकत्वमर्थः। मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेदबोधितत्वम् । अथ मन्त्रस्य त्यागकरणत्वं बाधितमेव। विनापि मन्त्रमिच्छाविशेषरूपस्य तस्योत्पत्त्या व्यभिचारात्। इष्टसाधनताज्ञानघटितक्लप्तसामग्र्या अन्यथासिद्धत्वाञ्चेति मन्त्रस्य करणतां कथं वेदो बोधयेद् बोधयन्वा प्रमाणं भवेत्। सत्यम्। मन्त्रस्य त्यागकरणत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्तदेवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम्। तत्त्यागोद्देश्यताया एव तद्देवतापदार्थत्वात् । न चैवं घृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वापत्तिः । उद्देश्यपदेन वेदबोधितद्रव्यस्वामित्वप्रकारेण विषयताया एव विवक्षितत्वात् । संप्रदाने च स्वामित्वस्याबाधितत्वात् । न च त्यागोद्देश्यतायाश्चतुर्थ्यापि बोधनात्तद्धितचतुर्योर्देवतात्वबोधकतायामविशेषात्। "तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गन वा पुनः। देवतासङ्गतिस्तत्र दुर्बलं तु परं परम्" इत्यनेन विरोध इति वाच्यम्। त्यागोद्देश्यतायां वेदमेयत्व
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy