SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ पौषादिपदार्थ० ] जयाऽलकृतः ३१६ मुख्यार्थः का क्षतिः । तत्र लक्षणया सौरमासे पौषव्यवहारस्योपगन्तव्यत्वात् । स्थलपद्मादौ पङ्कजव्यवहारवदिति चेत्तर्हि तत्र पौषादिपदमुख्यार्थमासनिमित्तकाब्दिकश्राद्धादिविलोपप्रसङ्गः। यथाश्रुतशूलपाणिग्रन्थानुसारिणस्तु धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासाभिन्नधनुरादिस्थरव्यधिकरणशुक्ल प्रतिपदादिदर्शान्तेषु वा पौषादिपदस्य रूढत्वमेव स्वीकुर्वन्ति, न तु यौगिकत्वम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेया" विति वचनात् । पौषादिमासीयपौर्णमास्यां पुष्यादियोगस्यानियमात् । न च योगानादरे लाघवात्तत्तद्राशिस्थरविविशिष्टकालरूपसौरादिमास एव पौषादिपदशक्तिरुचितेति वाच्यम् । सा वैशाखस्यामावास्या या रोहिण्या संम्बध्यते इत्यादिश्रुतिबलाचान्द्र एव वैशाखादिपदशक्तिसिद्धेः । वस्तुतो नक्षत्रेण युक्तः काल इत्यत्र नक्षत्रयोगयोग्यत्वमेव विवक्षितम् । पुष्याद्ययुक्तायामपि पौषादिपूर्णिमायां पौष्यादिव्यवहारात् । अन्यथा माध्यां यदि मघा नास्तीत्यादेरसंगत्यापत्तेः पुष्यादियोगयोग्यता च धनुरादिस्थरव्यारब्धपक्षीयत्वं तद्रपाक्रान्तपौणमासीघटितत्वरूपयोगलभ्यतावच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराकरणसंभवस्तत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याद्यघटिततया तेन रूपेण पूर्णिमाबोधकपौष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति पौषी रात्रिरित्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम् । मकरादिस्थरव्यारब्धकृष्णपक्षीयरात्र्यादावपि तथा व्यवहारादिति नक्षत्रेण युक्तः काल इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्वसंभवश्वेद्भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव पौषादिपदानां तद्योगपुरस्कारेण मासवाचकत्वे बाधकाभावाद्यौगिकत्वं कथं प्रत्याख्येयम् । न च सास्मिन्पौर्णमासीति सूत्रस्यास्मिन् पौष्या
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy