SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१८ व्युत्पत्तिवादः [ तद्धिते त्यस्यैकदेशे जन्यत्वे गाय॑स्य जीवति तु वंश्ये युवेतिपरिभाषितयुवार्थघटकजीवने च गर्गादेरन्वयस्तेन गर्गादिजीवनकालीनो गर्गगोत्रापत्यस्यापत्यमयमिति बोधः । माञ्जिष्ठं वास इत्यत्र तेन रक्तमित्यथे तद्धितो विहितः। तत्संवन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । शङ्खः पीत इत्यारोपमादाय शङ्खादेरारोप्य पीतिमाद्याश्रयहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादेश्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूपविशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसंवन्धे प्रतियोगितया रूपे चाश्रयतयाऽन्वयः। शूल्यमुख्यमित्यादौ तद्धितार्थसंस्कृतैकदेशे पाकादिरूपसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः । पौषी रात्रिरित्यादौ नक्षत्रयुक्तकालार्थे तद्धितः । कालस्य नक्षत्रयुक्तत्वं च तनक्षत्रशशिभोगाश्रयत्वं, तदेकदेशे शशिभोगे च कर्मतया तन्नक्षत्रान्वयः। पौषो मासः पौषो वर्ष इत्यादौ सास्मिन्नित्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौर्णमास्यां प्रकृत्यर्थपौष्यादेरभेदेनान्वयः। पौषादिपदं च न केवलं यौगिकम् । पौषः पक्ष इत्यादिव्यवहारविरहात अतो रूढमपि । अत एव सूत्रे संज्ञाग्रहणं रूढिनिरूपकतावच्छेदकं च मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं न तु त्रिंशत्तिथिरूपमासत्वमात्रम् । यत्किंचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव न कथं पौषादिपदशक्यतावच्छेदकमुपेयत इति चेन्न । सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योगरूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्येव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम् । तथा सति योगार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषादिपद
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy