SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५४ व्युत्पत्तिवादः [ आख्याते क्याप्रामाण्योपपत्तेः । न चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे 'स्वर्गकामो यजेते'त्यादिवाक्याद्यागादौ प्रवृत्त्यनुपपत्तिः । तत्राभावगोचरद्वेषघटितसामाग्र्यसंभवात् यागाद्यभावस्य नरकादिरूपद्विष्ठसाधनत्वाभावात् इष्टसाधनत्वबोधकमानाभावेन तज्ज्ञानघटितसामय्या अपि भवन्मते दुर्घटत्वादिति वाच्यम्। इष्टसाधनत्वस्य विध्यर्थताविरहेऽपि 'स्वर्गासाधनं न स्वर्गकामनाधीनकृतिसाध्य'मितीतरबाधबलात्स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्गसाधनत्वस्योक्तविधिजन्यबोधे भानाद्यागादाविष्टसाधनताज्ञानादेव प्रवृत्तिनिर्वाहात् । इत्थं च सन्ध्यावन्दनादौ तत्कालावच्छिन्नशौचादिकमेवाधिकारो न तु फलकामनापि । अत: फलकामनाशून्यस्यापि शौचादिमतः सन्ध्यावन्दनाकरणं प्रत्यवायजनकम् । फलकामनायास्तत्राधिकारत्वे तच्छून्यस्यानधिकारितया तदकरणं न प्रत्यवायमावहेत् । न च मुमुक्षापवादेन स्वर्गादिरूपफलकामनायाः कदाचिदसंभवेऽपि नरकाभावरूपफले नियमत एवेच्छा संभवतीति न शौचादिमतः सन्ध्यावन्दनाद्यकरणस्य प्रत्यवायजनकत्वानुपपत्तिरिति वाच्यम् । नरकाद्यनुपस्थित्यैव तदभावाज्ञानेन तदिच्छाविरहोपपत्तेरित्याहुः। तदसत् । ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रमाणकतया नरकात्यन्ताभावस्यैव प्रायश्चित्तसन्ध्यावन्दनादिफलत्वसंभवादिष्टसाधनताज्ञानाद्यघटितप्रवृत्तिसामय्या असिद्धेः। करणान्तरकल्पनापेक्षया गुरुशरीरक्षेमसाधनताज्ञानस्यैव सर्वत्र प्रवृत्तिहेतुतेति । दण्डाद्धट इत्यादिप्रतीतिबलात्स्वरूपसंबन्धविशेषरूपस्य क्षेमसाधारणसाधनत्वस्योपगमे तच्छरीरगौरवस्याप्यभावाचेति। नित्यस्थले शौचादिफलकामनयोरुभयोरधिकारत्वेऽपि प्रत्येकमेव तयोरधिकारिता न तु मिलितयोरिति फलकामनाशून्यस्यापि शौचादिमतोऽधिकारितया तस्यापि नित्याकरणं प्रत्यवायजनकम् । .
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy