SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४८ व्युत्पत्तिवादः ... [ कारके प्रति प्रतिबन्धकतायां आख्यातजन्याश्रयत्वोपस्थितेनिवेशनस्याधिक्याद्गौरवमिति वाच्यम् । ___ भवन्मतेऽपि ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दर इत्यादिविशिष्टवैशिष्टयावगाहिप्रत्यक्षे जानाति चैत्र इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुजन्यज्ञानोपस्थितिघटितसामग्ऱ्याः प्रतिबन्धकताधिक्येन गौरवात् । मन्मते च तादृशसामग्रथा विरोधिज्ञानाश्रयत्वाभाववत्तानिश्चयाभावघटिततया' तथाविधविशिष्टवैशिष्टयबोधसामग्यस्ताहशशाब्दबोधसामग्ऱ्या समं युगपदवस्थानासंभवेन तादृशप्रतिबन्धकत्वकल्पनाविरहादित्यधिकं दर्शितदिशावसेयम् । । ' अथैवं रीत्या भूतले न घट इत्यादौ घटादिपदस्य घटप्रतियोगिकादौ तदुत्तरसुब्विभक्तरेव वा प्रतियोगितायां लक्षणामभ्युपेत्य तत्र घटप्रतियोगिकाभावो भूतलवृत्तिरित्याद्याकारकप्रतियोगिताप्रकारकशाब्दबोधोपगम एव समुचितः । तथा सति तथाविधसमभिव्याहारज्ञानघटितसामग्य घटप्रतियोगिकत्वाभाववानभावः प्रमेय इत्यादिविशिष्टवैशिष्टयबोधं प्रति प्रतिबन्धकत्वाकल्पने लाघवादित्युक्तनियमे निपातातिरिक्तत्वविशेषणवैयर्थ्यमिति चेत्-न।भूतले न घट इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्तम्याधेयत्वस्येव तात्पर्यवशाद्धटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वा पुरप्रवेशन्यायन राज्ञः पदजन्यराजनिरूपितस्वत्वत्वाद्यवच्छिन्नोपस्थितिरेका पुरुषपदजन्यपुरुषत्वावच्छिन्नोपस्थितिद्वितीया इत्येवमुपस्थितावपि साम्यम् । संसर्गतावादिमते उपदर्शितप्रतिबध्यप्रतिबन्धकभावकल्पनं व्याप्यलक्षणीय 'निश्चयघटिततयेति गूढार्थतत्त्वालोके ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy