SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १४६ भावस्यान्वयबोधोऽप्यनुभवसिद्धः। अन्यथा तादृशवाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घट इत्यादिवाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितायाः सर्वानुभवसिद्धाया अनुपपत्तेः । नञ्पदं विना यत्र धर्मिणि यस्य विशेपणतया भानं यादृशसमभिव्याहाराद्भवति तादृशसमभिव्याहारस्थले नसत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवापलापप्रसङ्गाच्च । एवं च नञर्थाभावेऽनुयोगितया घटाद्यन्वयबोधोपपत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । एवं न पचति चैत्रः, चैत्रस्य न धनमित्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नबर्थस्य चैत्रधनादावन्वयबोधोपपत्तये घटो न पट इत्यादौ नबर्थघटादिभेदस्यान्वयबोधोपपत्तये च तदावश्यकम् । न चोक्तस्थलेषु नञोऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनामभेदान्वयबोध एव तत्रोपेयते इति वाच्यम् । तथा सति सर्वत्राभाववत एव नबर्थतया मुख्यार्थपरनयो दुर्लभत्वापत्तेः अभावस्य भेदान्वयबोधोपगमेऽपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणा नौचित्यात् , अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादिवाक्यजन्यबोधे भूतले न घट इत्यादिवाक्यजन्यबोधस्याविरोधितापत्तेश्च लाघवात् स्वरूपसम्बन्धेन ग्राह्याभावप्रकारकनिश्चयस्यैव विशिष्टबुद्धिविरोधित्वान्न त्वभेदसंसर्गकग्राह्याभावाश्रयकारकनिश्चयस्येति । नीलो घट इत्यादौ विशेषणविभक्तरभेदार्थकत्वमतेऽपि यद्यप्युक्तरीत्या लाघवं सम्भवति तथापि तत्रापि न नो विद्वेष इति दिक् । प्रतियोगितावच्छेदकगुरुधर्मस्य च स्वीकार इत्येतद्गौरवद्वयं सर्वथा अस्त्येवेत्यलं पल्लवितेन ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy