SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 47UNEnj है प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेन नानाविध :। विभक्ति च । सुप्तिभेदेन द्विविधा । सुब्बिभक्तयः प्रथमाद्वितीया 'यः सप्त । तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयान्वयिनो संख्यैव । अत एव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमा- . न्तार्थस्य विशेष्यमासकसामग्न्यभावादसौ मुरव्यविशेष्यतयैव . भासते । संख्यावाचकानां च एकवचन द्विवचनबहुवचनानामेकत्वस्वद्वित्वत्ववहुत्वत्वावच्छिन्नेषु शक्तिः । शक्तता च शुत्व-ौत्वजस्त्वादिना न तु स्वादितिबादिसाधारणैकवचनत्यादि ना। एकवचनत्विादेदुवंचत्वात् । न चैकत्वादिवाचकत्वं तत् । वानकतायाः शक्ततावच्छेदकत्वे आत्माश्रयात्। वोधकतारूपत्वे शक्ति भ्रमेण द्विवच-. मादीनामपि एकत्वबोधकतया अतिप्रसक्तत्वात् । न चैकवचनत्वा- । दिकं जातिविशेषः सुप्त्वादिना सांकर्यात् । न च शक्तिसम्बन्धन एकवचनादिपदवत्त्वं तत् । तदिशाज्ञानविरहदाय च सुत्वादिना 'शक्तिभ्रमादेव शाब्दबोधः । एकवचनादिशब्दस्य पदद्वयात्मकतया तादृशसमुदायशक्तेरेवाप्रसिद्धिरिति तु नाशङ्कनीयम् । एक वक्ती-. त्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादिशब्देऽपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्व स्वादौ रूढिस्वीकारस्यावश्यकत्वादिति वाच्यम् । ग्रन्थकारीयसङ्केतेनैवोपपत्ती एकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येक वचन द्विवचने'त्यादिपाणिनिसूत्रस्य तदीयसङ्केतग्रहपरतयाप्युपपनेः। न हि यू स्त्र्याख्यौ नदीत्यनुशासनात् स्न्याख्येदृदन्तादिशब्द नद्यादिपदस्य शक्तिः सिद्धयति । किन्तु तदीयसङ्केत एव । अत एव नद्यादिसंज्ञा आधुनिकसङ्केतशालित्वात्पारिभापिक्येव न त्वौपाभिकी। ऋक्षेत्रमपि पाणिनिसङ्केतसम्बन्धेन ताशपदवत्त्वमेव सत्यादिशक्ततावच्छेदकमस्त्विति चेत्-न। तादृशसङ्केतस्य केन रूपेण सम्बन्धता सङ्केतंत्वेनेति चेत्तर्हि कस्य चित्पुंस एकवचनपढ़ात सुऔजसादि
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy