SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] १५१ अन्यथा बोद्धव्य इत्याकारक सङ्केतस्थापि सम्भवादतिप्रसक्तिर्दुर्वारैव । पाणिनि सङ्केतत्वेन तथेति चेत्तर्हि व्याकरणप्रणेतुः पुरुषान्तरस्यापि तादृशसङ्केतस्य सम्भवात् + तदीयसङ्केतसम्बन्धेन तत्पदवत्त्वस्य डित्थादिपदात् सुजसादिर्वोद्धव्य इत्याकारकपुरुषसङ्केतसम्बन्धेन डित्यादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्ततावच्छेदकताप्रसङ्गः। तथा चागत्या आनुपूर्वीविशेष एव शक्ततावच्छेदक इति । १ यन्तु संख्यापि प्रकृतेरर्थः । एकवचनादिकं च एकत्वाद्यर्थे तात्पर्यग्राहकमेव वचैव मेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये आकाङ्क्षाविरहाद्घटादावेकत्वाद्यन्वयानुपपत्तिः । हर्यादिपदादुपस्थितयोरश्वसूर्ययोराधाराधेयभावेनान्वयापत्तिः घटादिपदस्य एकत्वादिविशिष्टस्य घटादौ च न शक्तिसम्भवः । घटरूपं पश्येत्यादौ संख्यानवच्छिन्नघटादेरेवान्वयबोधादिति वाच्यम् । आकाङ्क्षावैचित्र्यादेकप्रकृत्युपस्थाप्ययोरपि घटैकत्वयोः परम्परमन्वयसम्भवात् । अत एव खण्डशक्त्यैवकाराद्युपस्थाप्ययोरन्ययोगव्यवच्छेदाद्योः परस्परमन्वयबोधः । न चैवं कर्मत्वादिकमपि प्रकृत्यर्थ एवास्तु, किं तत्र द्वितीयादिशक्त्येति वाच्यम् । नामार्थधात्वर्थयोः साक्षाद्भेदान्वयबोधस्याव्युत्पन्नतया कर्मत्वादेर्नामार्थत्वे तेन समं धात्वर्थान्वयासम्भवात् । च च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यज्ञाने विनैव शक्तिभ्रमं लक्षणाग्रहं वा द्विवचनाद्यन्तपदादेकत्वादिवोधसम्भवात् । एकत्वादितात्पर्येण एकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्तिरिति वाच्यम् । अनादितात्पर्यस्यैव स्वारसिकप्रयोगमूलत्वादेकवचनाद्यन्तपदस्यैव एकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविहरात् । द्वयेकयोद्विवचनैकवचने इत्याद्यनुशासनं च तादृशतात्पर्यग्राहक मेवेति वैयाकरणमतम् । तक्सत् । अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वापेक्षया अल्पतरविभक्त्याद्यानुपूर्वीणामेकत्वा जयाऽलङ्कृतः
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy