SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ .. २५६ तृतीया ] जयाऽलङ्कृतः तथात्वात् । यदा मैत्रेणान्यत्क्रियते न तु पच्यते तदा मैत्रेण न पच्यत इति प्रयोगश्च । न चाख्यातेन कालस्य कृतिविशेषणतया बोधनात्कालविशेषविशेषितकृतित्वस्यान्वयितावच्छेदकतया तदवच्छेदेन नजाभावः शक्यो बोधयितुम् । न तु कालक्रियोभयविशेषितकतित्वावच्छेदेन कर्मप्रत्ययस्थले क्रियायाः कृतिविशेषणत्वाभावेन त द्घटितधर्मस्यान्वयितावच्छेदकत्वाभावादिति वाच्यम् । क्रियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेऽपि तदवच्छिन्नत्वविशिष्टविशेषणताया अभावसंसर्गतया भानसंभवेन सामञ्जस्यात् । न चान्वयितावच्छेदकावच्छिन्नत्वमेव विशेषणसम्बन्धे भासत इति नियमः । तथा सति शरदि पुष्पन्ति सप्तच्छदा इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादेः शरवृत्तित्वान्वयितानवच्छेदकतया अाख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वावच्छेदेन च शरदृत्तित्वान्वये बाधादवच्छेदकावच्छेदेनान्वयानुपपत्तेरन्वयितावच्छेदकसामानाधिकरण्यमात्रेण च तदन्वयोपगमे शरदि पुष्पन्ति सप्तच्छदाः शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तेः । यदि च तत्र शरत्संबन्धः सप्तच्छदविशेषणतया भासते न पुनराख्यातार्थे धातुमात्रार्थे वा पुष्पोत्पत्तौ । अत एव कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरं स्वातन्त्र्येण सप्तमी सपनला सूत्रिता। एवं च क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वेन पुष्पोत्पत्तिनिमित्तत्वरूपाख्यातार्थस्य विशिष्टान्वयानुरोधेन शरत्संबन्धेष्वप्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातार्थत्वानुपगमेऽपि शीतलं सरोऽवगाढवतो निदाघदुःखं व्यपैतीत्यादाविवोद्देश्यविधेयभावमहिम्नोद्देश्यविशेषणशरत्संबन्धन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयोजकभावस्य संसर्गमर्यादया भानमिति चम्पकादिपुष्पोत्पत्तौ शरत्संबन्धनिमित्तकत्वाभावानोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छेदेनान्वय एव नोपेयत इत्युच्यते, तथापि तादृशनियमो निष्प्रामाणिक
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy