SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६० व्युत्पत्तिवादः [ कारके एव । न च तादृशनियमानुपगम इह भवने मैत्रेणैव पक्ष्यते तेमनमित्यत्रैतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दापाकानुपस्थित्या तदवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधासंभवकथनं दीधितिकृतां विरुध्येत इति वाच्यम् , अवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया भासमानमेव रूपं विशेषणे अवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभिधानात् । विशेषणसंवन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्टबुद्धौ भासत इत्युपगमे शब्दानुपस्थितरूपावच्छेदेन विशेषणान्वये बाधकाभावात् । न चावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन विशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम् । घटो द्रव्यमित्यादौ घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूपत एव भानादिति वाच्यम् । तादृशशाब्दबोधे द्रव्यत्वाद्यवच्छिनस्यैवाभेदसंबन्धेन विशेषणत्वात् घटत्वादिविशिष्टे द्रव्यत्वादिविशेषणकतादृशप्रत्यक्षेऽवच्छेदकावच्छेदेन भानानुपगमे क्षतिविरहात्, तथा च मैत्रेण न पच्यत इत्यादौ पाककृतित्वस्यान्वयितानवच्छेदकत्वेऽपि अर्थलभ्यतादृशधविच्छिन्नत्वस्य संसर्गाशे भानं निराबाधमेवेति चेन्न । मैत्रेण न पक्क इत्यादौ कृतौ मैत्रादिवृत्तित्वाभावबोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादिकृतिजन्यत्वाभावबोधस्योपगन्तव्यतया मैत्रेण न पच्यत इत्यादावपि तद्बोधोपगमेन सामञ्जस्यात् । न च यदा मैत्रः सुतस्तदा मैत्रेण पक्ष्यते न तु पच्यत इति प्रयोगानुपपत्तिः । मैत्रवृत्तिवर्तमानकृतेरप्रसिद्धथा तादृशकृतिजन्यत्वाभावप्रत्यायनासम्भवात् वर्तमानत्वाविशेषिततदीयकृतिजन्यत्वाभावस्य बाधितत्वादिति वाच्यम् । आख्यातार्थवर्तमानत्वादेर्नसमभिव्याहारस्थलेऽभावांश एवान्वयस्य व्युत्पन्नत्वात् अन्यथा विनष्टघटं न पश्यतीत्यादौ तादृशघटकर्मकवर्त्तमानदर्शनाद्यप्रसिद्धयाऽन्वयबोधानुपपत्तेः । प्रकृते च
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy