________________
तृतीया ]
मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतज्जन्यत्वाभावस्यैव पार्क प्रतीत्या सामञ्जस्यात् । पाकत्वाद्यवच्छेदेनैव मैत्रादिकर्तकत्वाभाव बोधोपगमान्मैत्रादिकर्तकपाकदशायामन्यकर्त कपाके मैत्रादिकर्तकत्वाभावसत्त्वेऽपि न पच्यते मैत्रेणेत्यादयो न प्रयोगाः । यत्र मैत्रेणोदनं पच्यते न तु तेमनं तत्र मैत्रेण न पच्यते तेमनमित्यादिप्रयोगनिर्वाहाय तेमनपाकत्वाद्यवच्छेदेनैवाभावान्वयबोध उपगम्यते, न तु शुद्धपाकत्वाद्यवच्छेदेन, बाधितत्वात् । यथा च तेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोपपादितमाधेयत्त्रस्य तृतीयार्थत्ववादिनैव । घटेन न पच्यत इत्यादयः प्रयोगाः आकाशं न पश्यतीत्यादिप्रयोगसमानयोगक्षेमाः । प्रचेतनकाष्ठस्थाल्यादेरपि कर्तृत्वविवक्षया काष्ठं पचतीत्यादिवत्काष्ठेन पच्यत इति प्रयोगात् । तत्र व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा । एवं चैत्रेण ज्ञायते, इष्यते, गम्यत इत्यादावाश्रयत्वरूपे कर्तृत्व आधेयत्वरूपे कतृमत्त्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वरूपे कर्तत्वेऽनुयोगित्वरूपे कर्तमत्त्वे वा लक्षणा । कर्तृपदमपि व्यापारादिमत्यचेतनादौ भाक्तमेव । अचेतनादौ स्वरसतः कर्तृपदाप्रयोगात् । अत एव च कृञो यत्नवाचकत्वम् । न च यन्नवत एव कर्तृपदार्थत्वे कर्तृकरण्यो स्तृतीयेत्यादौ कपदस्य मुख्यार्थत्यागे युक्तिविरहादचेतन काष्ठादिवाचकपदयोगे कर्तप्रत्ययानुपपत्तिरिति वाच्यम्, सूत्रस्थकर्तृपदानां स्वतन्त्रः कर्तेतिसूत्रकृत्परिभाषितकर्तृपरत्वात् । अन्यथा तत्प्रणयन वैयथ्र्यप्रसङ्गात् । स्वतन्त्रत्वं च कारकान्तरानधीनत्वे सति कारकत्वम् । पुरुपव्यापाराधीनक्रियानुकूलव्यारवतामेव काष्ठादीनामन्यव्यापारानधीनक्रियानुकूलव्यापारवत्त्वरूप स्वातन्त्र्यस्य काष्ठं पचतीत्यादौ विवक्षया काष्ठादेः कर्तृत्वम् । न च स्वातन्त्र्यविवक्षणेऽपि स्वातन्त्र्यस्य वास्तविकस्याभावात् तद्बोधकविभक्तीनामप्रामाण्यं
जयाऽलङ्कृतः
२६१
-