________________
व्युत्पत्तिवादः
[ कारके
२६२
दुर्वारमेवेति वाच्यम् । समभिव्याहृतक्रियाकारकान्तरव्यापारानधीनतत्क्रियानुकूलव्यापारस्यैव तत् । क्रियावाचकपदसमभिव्याहतविभक्त्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च चैत्रः काष्ठैः स्थाल्यां पचतीत्यादिस्थले चैत्रः स्थालीकाष्ठानि पचतीति प्रयोगापत्तिवारणम् । यत्र च चैत्रः पचति काष्ठं पचतीत्यादौ समभिव्याहृतकारकांतराप्रसिद्धिस्तत्रानधीनान्तविशेषणं न प्रतीयत एव । तनिर्वाहश्च तत्र लकारादेः स्वतन्त्रशक्त्यन्तरकल्पनात् । विशिष्टविष - यकशक्त्या विशेषणाविषयकबोधाजननात् । न च मैत्रः चैत्रेण पाचयतीत्यादौ हेतु कर्तृ समभिव्याहारस्थले कर्त्तरि तृतीयानुपपत्तिः, कर्तव्यापारस्य समभिव्याहृतहेतुकर्तव्यापाराधीनत्वादिति वाच्यम् । तंत्र ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव हेतोः कारकतया स्वतन्त्रकर्तव्यापारस्य पचादिक्रियाकारकव्यापारानधीनत्वात् । स्वतन्त्रं प्रयुञ्जानस्य पुंसो व्यापारस्तण्डुलक्रयणादिवत्पाकादावन्यथासिद्धतया नकारणमिति पाकादिप्रयोजक व्यापारवत्त्वेऽपि तस्य तत्क्रियाकारकत्वाभावात् । अत एव चैत्रो मैत्रेण पाचयतीत्यादौ चैत्रः पचतीति न प्रयोगः । न च पञ्चभिर्हलैः कर्षति गृहीत्यादौ भूमिलेखनरूपकृष्यादिक्रियायां स्वतन्त्रकर्तन् प्रयुञ्जानस्य गृहिणो व्यापारस्य दर्शितयुक्तया लकारादिनाऽभिधानासंभव इति कर्षतीति न स्यात्कर्षयतीति च स्यादिति वाच्यं तत्र कृषेः प्रति विधानार्थत्वात् । उक्तं च'याजका यजन्तीति यजिर्हविः प्रक्षेपार्थः । हलैः कृषतीति कृषिः प्रतिविधानार्थ' इति याजेर्देवतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्र च यजमानस्यैव कर्तृतया हविः प्रक्षेपरूपलक्ष्यार्थपरत्वं दर्शितम् । तत्र च ऋत्विजामेव स्वातन्त्र्यम् । होतेत्यत्रापि हविःप्रक्षेप एव धातोरर्थो न तु तादृशफलावच्छिन्नस्त्यागः । तथा सति ऋत्विजस्तत्र स्वतन्त्रकर्तृताविरहेण होतृपदेन प्रतिपादनासंभवात् । धात्वर्थतावच्छेदकफलकर्तृत्वमेव कर्तृप्रत्ययेन प्रतिपाद्यत इति ऋत्वि
-