________________
२०६ व्युत्पत्तिवादः
[ कारके त्वेन शक्तिः । वस्तुतः फलव्यापारयोः पृथक्धात्वर्थतामते गच्छतीत्यादाविव गम्यते इत्यादावपि लकारेणाश्रयत्वरूपकर्तृत्वाभिधाने यग् अनुपपन्न इति, परस्मैपद'समभिव्याहृतधातुना यादृशविशिष्टोऽर्थः प्रत्याय्यते, तादृशविशिष्टार्थान्वितकर्तृत्वांभिधानमेव शब्विषयः। एवं च प्रकृतेऽपि नानुपपत्तिरिति ध्येयम् । ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ भावना विशेष्यतया ग्रामादेर्भानेऽपि गमनादिकर्तुः कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतया बोधोऽव्युत्पन्नः । ण्यन्ते कर्तुश्च कर्मण इत्यनुशासनादतोऽजां ग्रामो याप्यते शिष्यमर्थो बोध्यते' इत्यादयो न प्रयोगाः। ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ फलं विषयित्वादिरूपं च मुख्यभाक्तसाधारणं कर्मत्वमेवाख्यातार्थः । फलव्यापारयोः पृथक्धात्वर्थतामते आश्रयत्वमेवाख्यातार्थः। धात्वर्थव्यापारविशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानेऽपि, ण्यर्थव्यापारस्य जन्यतासम्बन्धेनैव धात्वर्थक्रियाज्ञानादिविशेषणत्वं पूर्ववदेव। अजां ग्रामो याप्यते इत्यादिकस्तु न प्रयोगः, द्वितीयया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया ण्यर्थबोधसामग्यः प्रयोजकत्वात् । यगादिसमभिव्याहृतस्थले च धात्वर्थ
'परस्मैपदेति । ननु यादृशधातोनित्यात्मनेपदविधानात्परस्मैपदसमभिव्याहारोऽप्रसिद्धस्तत्र का गतिरिति चेत्तर्हि आनुकूल्यत्वेनाप्रतीयमानधात्वर्थनिरूपितकर्तृत्वविवक्षैव शनिमित्तमिति ध्येयम् ।
भावनेति । भावनाप्रत्ययार्थमात्रम् ।
'शिष्यमर्थो बोध्यत इति । वस्तुतोऽयमसाधुरेव बुद्धिभक्षार्थयोः शब्दकर्मकाणानिजेच्छयेत्युक्तेः ।