________________
द्वितीया ] जयाऽलङ्कृतः
२०५ स्वकर्तृत्वनिर्वाहकत्वं संसर्गः। अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम्। याप्यते ग्राममजा इत्यादौ स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धन अजादौ विशेपणतया भासते। तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थंकदेशे संयोगादिफले च द्वितीयान्तार्थस्य ग्रामवृत्तित्वस्य विशेषणतया भानं ण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः। तत्र च तस्य वृत्ति: क्लृप्तैव । तच्च उक्तस्य धात्वर्थस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते। न च यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्यान्वयबोधोपगमे गम्यते चैत्र इत्यतोऽपि गमनकर्ता चैत्र इत्यन्वयबोधः स्यादिति वाच्यम् । एयन्तोत्तरयक्समभिव्याहृताख्यातस्यैव कर्तृत्वान्वयबोधनियामकत्वात्। अथैवमजा याप्यते इत्यादौ कर्तृत्वस्याख्यातबोध्यत्वे कर्त्तरि शबित्यपवादविषयतया यकोऽसाधुतापत्तिः। न च याहशधातूत्तरं यत्सार्वधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विवक्षायामेव कर्तरि शबित्यादेः शबादिविधायकत्वात् , प्रकृते ण्यन्तसमुदायस्य उत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तृत्वं च न बोध्यते, अपि तु ण्यर्थविशेषितधात्वान्वितकर्तृत्वमेवेति न तादृशापवादविषयतेति वाच्यम् । कर्माख्यातस्थले विशेष्यविशेषणभाववैपरीत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् ।
मैवम् । लकारसामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव कर्तरि शबित्यस्य विधायकता । अत्र कर्मत्वसमशीले कर्तृत्वे आत्मनेपद
'अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तमिति । जन्यत्वेन प्रतीयमानरूपफलाश्रयत्वाभावादित्यर्थः ।
लकारसामान्यवृत्त्येति । लत्वावच्छिन्नशक्ततानिरूपितशक्यताश्रयतया यत्र कर्तृत्वं प्रतीयते इत्यर्थः ।