________________
द्वितीया ] जयाऽलङ्कृतः
२०७ विशेषणतयैव ण्यर्थस्य बोधात् , ण्यन्तधातोः' सकर्मकत्वे तदुत्तरभावाख्यातस्य भावे चाकर्मकेभ्य इत्यनुशासनेनासाधुत्वाच्च न तादृशप्रयोगः। ग्रामो याप्यते इति भावाख्याते प्रयोगस्त्विष्ट एव । ण्यन्तकासमभिव्याहारादेकदा कर्तृत्वकर्मत्वबोधकताया आख्यातस्याव्युत्पन्नतया अजां ग्रामो याप्यते इत्यादयो न प्रयोगाः। एवं तण्डुलः सहायेन पाच्यते चैत्रेणेत्यादौ धात्वर्थे सहायादिकर्तृत्वस्य तद्विशेषणण्यर्थव्यापारे च चैत्रादिकर्तृत्वस्य तृतीयान्तार्थस्य बोधः । शेषं पूर्ववदिति दिक्। ___ ग्रामं गच्छतीतिवत्स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ इप्यते । तस्य च धात्वर्थेऽन्वयः । परत्वे चैकदेशेऽपि आकाङ्क्षावैचित्र्यात् प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः। एवं च ग्रामं गच्छति चैत्र इत्यादौ ग्रामभिन्नसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबोधः। स्वनिष्ठसंयोगजनकक्रियायां स्वभिन्नसमवेतत्वस्य बाधात्स्वमात्मानं गच्छतीति न प्रयोगः। यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृशक्रियाश्रयतायाः स्वस्मिन् बाधात् मल्लः स्वं गच्छतीति न प्रयोगः। मच स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्वभिन्नसमवेतत्वस्या
'ण्यन्तधातोरिति । नन्वभावाख्यातस्थले ण्यर्थस्य धात्वर्थविशेष्यतया भानसम्भवात्तत्रैवास्तु अजां ग्रामो याप्यत इत्यत आह—ण्यन्तधातोरित्यादिना।
स्वभिन्नसमवेतत्वस्येति । स्वनिष्ठसंयोगजनकत्वे परसमवेतत्वे च खण्डशो द्वितीयाया शक्तिः तत्र च यत्किञ्चिदंशपरित्यागेऽपि बोधस्यानुभविकत्वादिति भावः ।