________________
योग्यतया तदभानेप्यवाधितं स्वनिष्ठसंयोजकत्वं विषयीकृत्य शाब्दबोधसम्भवात् । तदर्थमात्रतात्पर्येण स्वं गच्छतीति प्रयोगो दुर्वार एवेति वाच्यम्। परसमवेतत्वाविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यनभ्युपगमेन "तहिशवधि नद्भासकसमियाँ अप्यपेक्षणीयत्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् खं गच्छतीति प्रयोगस्य दुर्वारतया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव भेदेऽन्वयो बोध्यः। तथा च चैत्रो द्रव्यं गच्छति, मल्लो भल्लं गच्छरोत्यादिवाक्यस्याप्रमाणतापत्तिः । चैत्रमल्लादिनिष्ठक्रियायां प्रकृत्यर्थतावच्छेदकीभूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नासमवेतत्वात् । तत्तव्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासम्बन्धेनान्वयोपगमासम्भवात् ।। उक्तयुत्तथा सम्बन्धघटकोपस्थितेरपि शाब्दबोधेऽपेक्षितत्वात् । ३ एकधर्मावच्छिन्नप्रतियोगि'ताया अन्यधर्मावच्छिन्न संसर्गत्वे मानाभावाच्च 'प्रतियोगिविशेधिताभावबुद्धेविशिष्टवैशिष्ट्यावगाहित्वनियमात् अन्वयितानवच्छेदकावच्छिन्नप्रतियोगितायाः सम्बन्धत्वासम्भवाच्चे ते चेसहि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु । भेदे प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वय इति न का चिदनुपात्तिः। न चैवमपि विहगो भूमिं प्रयातीतिवद्विहगो विहगं गच्छतीति प्रयोगो दुर्वारः । विहगनिष्ठभूमिसंयोगजनकतक्रियाया विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया विहगनिष्ठभेदप्रतियोगितावच्छेदकविहगवृत्तिसंयोगजनकक्रियाश्रयत्वस्याबाधितत्वादिति वाच्यम् । विहगो
'अन्यधर्मावच्छिन्नेति । तथा च तद्व्यक्तित्वाव िछन्नप्रतियोगिताया मल्लत्वाद्यवच्छिन्नप्रतियोगिकसंसर्गत्वन्न सम्भवतीति भवः ।