________________
३२८ व्युत्पत्तिवादः
[ पाख्याते रस्य यत्नत्वविशिष्टार्थकताया आवश्यकत्वात् । लाघवात्तत्रैव शक्ति
ापारे लक्षणेति। न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वासंभव इति वाच्यम् । निवृत्त्यादियत्नस्याख्यातवाच्यतोपगमे क्षतिविरहात् । निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले पचतीतिप्रयोगापत्तिविरहात्, इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातप्रवृत्तिनिमित्तत्वोपगमाद्वा । अत एवेश्वरकृतेर्जन्यमात्रजनकत्वेऽपीश्वरः पचति ईश्वरो भुङ्क्त इत्यादयो न प्रयोगाः । न चैवमीश्वरो वेदं वक्ति मथुरायां कृष्णो विहरतीत्यादिप्रयोगानुपपत्तिः। अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याख्यातप्रवृत्तिनिमित्तत्वेऽपि तत्र व्यापारलक्षणाया आवश्यकत्वात् । तथा हि । आत्मा पचति शरीरं पचतीत्यादिस्वारसिकप्रयोगविरहादाख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनान्वयनियमः स्वीकरणीयः । चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपरतया चैत्रः पचतीत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदेकावच्छेदेनात्मनि समवायेनान्वयसंभवात् । गौरः पचतीत्यादावपि गौरादिपदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतस्तथान्वयासंभव इति व्यापारलक्षणा आवश्यकी । ईश्वरकृतिसाधारणयत्नत्वावच्छिन्न एवाख्यातार्थः । असाधारणानुकूलत्वं यत्ने क्रियायाः संबन्धतया भासते न त्वनुकूलतामात्रम् । असाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वोपगमादतोऽस्मदादिकतकपाकादिक्रियानुकूलकृतिमादाय नेश्वरः पचतीतिप्रयोगः । वेदवचनादौ च ईश्वरकृतेरेवासाधारणकारणत्वात् ईश्वरो वेदं वक्तीत्यादयः प्रयोगा इत्यपि केचित्।
अथ कृतेराख्यातस्य कृत्रश्च वाच्यत्वे करोतीत्यादौ कृतेर्द्विधा