________________
नैयायिकमतम् ] जयाऽलङ्कृतः
३२७ प्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । __अत्र केचित् । पचतीतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात्तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिर्लाघवासिध्यति। न हि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्नत्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाख्यातस्यार्थाध्याहारमतेऽपि संभवति, लडादिकृतवर्तमानत्वान्वयबोधे लडादिसमभिव्याहृतधात्वन्यतरजन्यविशेष्योपस्थिते: कारणताया आवश्यकत्वात् । अन्यथा निराकाङ्क्षयत्नादिपदमात्राद्यत्नाद्युपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् । न चार्थाध्याहारवादिनां द्वारं पिधानं कृतिरित्यादितो द्वारकर्मककृतेरिव पचति यत्न इत्यादितः पाकयत्नो वर्तमान इत्याद्याकारको वर्तमानत्वादेर्बोध इष्ट एवेति वाच्यम् । परस्परसाकाङ्क्षपदार्थद्वयान्वयाबोध एवाध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्याथस्य विषयतायास्तैरुपगमात् । तत्रान्वयानुभावकसाकाङ्क्षपदसत्त्वात् । प्रकृते चान्वयबोधस्याऽऽकाङ्क्षानुपयोगिपदार्थान्वयविषयकत्वेन तेषामप्यसंमतत्वात। तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वीकारापत्तेः । शाब्दबोधे आकाङ्क्षानुपयोगप्रसङ्गाच्चेति तन्न। तात्पर्यलिङ्गन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमात् । ताशवर्तमानत्वप्रतीतौ शाब्दत्वप्रतीते: सविवादत्वादित्याहुः। - अत्र नैयायिकाः। रथो गच्छतीत्यादावाश्रयत्वमेवाख्यातार्थो न तु व्यापारः। अन्यदीयगमनानुकूलनोदनादिविलक्षणव्यापारवति गच्छतीत्यप्रयोगात । एवं च काष्ठं पचतीत्यादिप्रयोग एव व्यापारशक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् । तदेव न । न हि चैत्रः पचतीत्यादिप्रयोगेण काष्ठं पचतीत्यादिप्रयोगस्याविशेषः । एवमचेतने स्वरसतः कर्तपदाप्रयोगात् कृतोऽपि यत्नत्वविशिष्टोऽर्थः । एवं चैत्र एव पचति पाककर्ता न त्वचेतनं काष्ठादीत्यादिप्रयोगाल्लका