________________
३३८
व्युत्पत्तिवादः
[ आख्याते णया तद्बोधोत्पत्तेरावश्यकत्वात् । परंतु तत्र विभागादिरूपफल एव फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफल प्रत्यायनेच्छया स्वरसतो न तादृशप्रयोग इति वाच्यम् । विना शक्तिभ्रमं लक्षणाग्रह च ग्रामं त्यजतीत्यादितः सत्यपि तात्पर्ये संयोगावच्छिन्नव्यापाराप्रतीतेरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वात् । ज्ञायते इष्यते क्रियते घट इत्यादौ विषयत्वरूपं कर्ममत्वं तङर्थः । न च कृतिविषयतायाः फलतत्साधनतदुपादानसाधारणतया यत्र घटः क्रियते इत्यादिप्रयुज्यते तत्र जलाहरणं कपालं क्रियत इत्यादिप्रयोगस्यापत्तिरिति चेत् । कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययस्य चिकीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थः । उक्तस्थले च कपालादौ कृतेस्तादृशविषयत्वाभावान्नोक्तप्रयोगप्रसङ्गः । काशाः कटं क्रियन्ते इत्यादौ साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृतकर्मप्रत्ययेन व्यापार्यतारूपविषयतापि प्रत्याय्यते तदुपादानतया कृतिविषयकाशादौ साध्यतारूपकृतिविषयताविरहेऽपि न तादृशप्रयोगानुपपत्तिः। तादृशकर्मसमभिव्याहाररूपतत्प्रयोजकविरहात् काशाः क्रियन्ते इत्यादौ काशादौ व्यापार्यताबोधानुपपत्तेर्न तादृशप्रयोग इति काशाः कटाः क्रियन्ते इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदाकर्मद्वयवाचकपदयोः समभिव्याहारे व्यापार्यताबोधानुपपत्तिश्च । क्रियते इत्यत्र विषयतायाः कर्मप्रत्ययार्थत्वे पाकानुनधायककृतिमादाय पाकोऽकारीत्यादिप्रयोगापत्तिरित्यादिकन्तु दूषणनिराकृतमधस्तात्कर्तृकर्मत्ववत्कालविशेषेऽनुशिष्टा लडादयः कालविशेषमपि बोधयन्ति । तत्र लद्प्रत्ययस्य वर्तमानकाले शक्तिः । पचतीत्यादौ कृत्यादिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्तादृशव्यापार एवान्वेति न तु क्रियायाम् । यदा पुरुषो व्यापारशून्यस्तदधीनाग्निसंयोगादिरूपः पच्यादेरर्थो विद्यते तदायं न पचतीति प्रयोगादयं पचतीत्युक्ते इदानीमयं पाकयत्नवान्न वेति संशयनिवृत्तः पूर्वपरीभावापन्नस्था