SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सकर्मकार्थ० ] जयाऽलङ्कृतः एव तत्रोपगन्तव्य इति दिक् । फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । काख्यातस्थले फलं धात्वर्थव्यापारविशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः । कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते तस्य विशेष्यतया आख्यातार्थ आश्रयत्वे तद्विशेष्यतया कर्मेति दीधिधिकृतः। .. . केचित्तु संयोगादिरूपफलावच्छिन्नव्यापारबोधकानां गमिप्रभृतीनां कर्मप्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः, धातूनांच व्यापारमात्रवाचिता। धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभावसंबन्धेन साक्षादन्वयासंभवात्फलाश्रयत्वस्य कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानकल्पनेनापि गौरवं फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् । न च धातूनां व्यापारमात्रवाचित्वे ग्रामं त्यजतीत्यादितोऽपि ग्रामं गच्छतीत्यादित इव संयोगादिरूपफलावच्छिन्नस्पन्दबोधापत्तिः। ग्रामस्त्यज्यते इत्यादितोऽपि ग्रामो गम्यत इत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति वाच्यम् । कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचित्वेऽपि तत्तत्फलबोधे धातुविशेषसमभिव्याहारज्ञानस्यापेक्षयातिप्रसङ्गविरहात् । त्यजति गच्छति स्पन्दते इत्यादौ कर्मासमभिव्याहृते बोधवैलक्षण्यं च तत्तद्धातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमेनोपपादनीयम् । फलान्वितस्वार्थव्यापारबोधकत्वं गम्यादेः स्वभावाधीनं तदभावात्स्यन्दिप्रभृतिष्वकर्मकत्वव्यवहार इत्याहुः–तन्न । यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेति भ्रमदशायां याति गच्छतीत्यादाविव त्यजति गच्छतीत्यादितोऽप्यविलक्षणबोधोत्पत्त्या धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकताकल्पनासंभवात् । न च ग्रामं त्यजतीत्यादितः संयोगावच्छिन्नव्यापारबोधस्तात्पर्यसत्त्वे इष्यत एव । त्वन्मतेऽपि तात्पर्यानुरोधेन लक्ष २२
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy