________________
लट्प्रत्ययः ] जयाऽलङ्कृतः
३३६ ल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकतद्वयापारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे तदन्वयस्यैव लाघवेनोचितत्वाच्च । वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूपस्तत्तच्छब्दार्थः । अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगाधिकरणकालीनत्वन कृत्यादावन्वयः। स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमात् शक्तयानन्त्यम् । सामान्यतो व्युत्पत्तेर्दुघटतया पूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समाधास्यते। विशिष्य तत्तत्कालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्वनामशक्तौ बुद्धिस्थत्लादिवच्छब्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम्। न च तत्कालस्यैवं सत्यवाच्यत्वे तज्ज्ञानानुपपत्तिरसमाधेयैवेति वाच्यम्। शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् । अथ शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालद्वयावृत्तिधर्मत्वनिवेशेपि एतद्रपमासत्वादिव्यावर्तनमशक्यम् । क्षणद्वयावृत्तिक्षणवृत्तिधर्मत्वेन तद्वयावर्तने चाध्ययनाद्यनधिकरणेऽप्यध्ययनाद्यधिकरणस्थूलकालान्तर्गतक्ष्णेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणिमयमधीत इत्यादिप्रयोगानुपपत्तिः। यदि च स्वप्रागभावानधिकरणस्वाश्रयकर्तृकप्रकृतक्रियाप्रागभावाधिकरणशब्दप्रयोगाधिकरणकाल एव वतमानकाल आधेयत संबन्धेन कृतावन्वेत्यतोनोक्तस्थले चिन्तामणिमयमधीत इत्यादिप्रयोगानुपपत्तिः। प्रारम्भावधिसमाप्तिपर्यन्तस्य म्थूलकालस्यापि तथा त्वेन शब्दप्रयोगाधिकरणक्षणादिरूपान्तरालकालेऽध्ययनाद्यनुकूल् कृतिविच्छेदेऽपि शब्दप्रयोगाधिकरणत्वोपलक्षितताशस्थूलकालवृत्तित्वस्यापि तादृशक्रियानुकूलकृतावबाधेन योग्यतानिर्वाह इत्युच्यते, तदा येन समग्रचिन्तामणिमधीत्य किंचित्कालोत्तरं पुनश्चिन्तामरिसमध्येष्यते तत्रान्तरालदशायामप्ययं चिन्तामणिमधीत इति प्रयोगपत्तिः। यदि स्तुतिपाठादिविच्छेददशायामपि