SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३४० व्युत्पत्तिवादः [ पाख्याते प्रत्यहमयं स्तुतिं पठतीत्यादिवदुक्तस्थलेऽपि दर्शितप्रयोग इष्ट एवेत्युच्यते तदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपादानेनाननुगमो दुरुद्धर एवेति चेन्न। शब्दप्रयोगाधिकरणवृत्तिकालत्यव्याप्यधर्मत्वेनोपलक्षणेनानुगतीकृततत्क्षणदिनमासवर्षत्वाद्यवच्छिन्न एव काले लट: शक्ति.। क्रियारम्भात्पूर्वं कर्मसमाप्त्युत्तरं चाधीते पचतीत्यादिप्रयोगवारणाय कृत्यादिरूपव्यापारे तादृशकालस्य स्ववृत्तिप्रागभावाप्रतियोगित्वस्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्टत्वाभ्यां विशेषितेनाधेयतासंबन्धेनान्वयनियम उपगन्तव्यः। तत्तक्रियारम्भपूर्वमपि तत्समाप्त्युत्तरमपि वा वत्तेते यस्तत्तक्रियानुकूलकृत्यधिकरणकालस्तस्य दर्शितविशिष्टाधेयतासंबन्धस्तादृशकृतौ बाधितोऽप्रसिद्धो वेति न शब्दप्रयोगाधिकरणतादृशकालमादाय दर्शितप्रयोगापत्तिः । सम्बन्धे स्वपदार्थस्य विशिष्य निवेशेऽप्युपपत्तिश्चिन्त्या । न च क्रियानुकूलकृतिशून्यान्तरालदशायां स्थूलकालमादाय पचति अधीते इत्यादिवत्तादृशकृत्यधिकरणक्षणेऽपि स्थूलकालावच्छिन्नाभावमादाय न पचति नाधीते इत्यादिप्रयोगः । तत्र नञो वर्तमानक्षणमात्रान्विततादृशक्रियानुकूलकृत्यभावबोधकतानियमात्। उक्तरीत्या विशिष्यशब्दप्रयोगाधिकरणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात्। नसमभिव्याहारस्थलेऽपि प्रतियोगिन्येव कालान्वय इति तु न सत्। तत्तक्षणवृत्तिपाकादिकृतेरभावस्यान्यक्षणावच्छेदेन तदानींतनस्थूलकालावच्छेदेन तादृशकृतिमति सत्त्वेनोक्तातिप्रसङ्गस्य दुर्वारत्वात् । न च कालानवच्छिन्नाधारतासंबन्धेन नगर्थस्य पुरुषेऽन्वयान्नोक्तातिप्रसङ्ग इति वाच्यम् । तादृशस्थूलकाले यत्रात्मनि पाकादिकृतिस्तादृशकालान्तर्गततादृशकृत्यनधिकरणक्षणे न पचतीत्यादिप्रयोगोपपत्तये तत्क्षणावच्छिन्नपाकादिकृत्यभावबोधस्यैव तत्र तत्र स्वीकरणीयतया क्वचित्प्रतियोग्यप्रसिद्धेदुर्वारत्वात् । व्यापाराबोधकेन च लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्वयो बंध्यते जानातीत्या
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy