________________
[ आख्याते
३२२
व्युत्पत्तिवादः पर्याप्त्यवच्छेदकत्वे चान्यूनवृत्तित्वमेव च तन्त्रं न त्वनतिरिक्तवृत्तित्वमपि । अन्यथा आकाशत्वादेरिव घटत्वादेरपि द्वित्वादिपर्याप्त्यवच्छेदकता न स्यात् । आकाशावितिवत् घटावित्यपि न स्यात्। इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावपि अतिरिक्तवृत्तिकपोतत्वादेरवच्छेदकतानिर्वाहात् । कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः। पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यन्तरं चिन्तनीयम्। । इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते
व्युत्पत्तिवादे तद्धितार्थविवरणम् ।
अथाख्यातविवरणम् धातुप्रकृतिकाश्च लकारकृत्सन्यपिच्प्रभृतयः प्रत्ययाः केचिद्धात्वान्वितसाधकतमत्वं ब्रुवते । अर्थान्तरमनभिदधानाश्च केचिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधन एवोपकुर्वते। तत्र लडादिदशलकाराणां लः कर्मणि च भावे चाकर्मकेभ्य इति सूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः। तावन्मात्राभिधानेनैव प्रथमान्तपदोपस्थाप्यविशेषणतया तदन्वयेन कृतिविशिष्टस्य कर्तुर्बोधनिर्वाहात्। लकारस्य तद्बोधकतया न लःकर्मणीतिसूत्रविरोधः,बोधकताया एव तत्र सप्तम्यर्थत्वात् , न तु वाचकतायाः। गौरवेण विशिष्टधर्मिणि शक्तेर्वाधात् । मैत्रः पचतीत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याभेदेन तदर्थान्वितस्वार्थबोधपरत्वाभावेऽपि कथंचिदुपपादनसंभवात् । तृतीयायाः साधुतानियामकं लकारादिना कर्तुरनभिधानमपि कर्तृत्वविशिष्टाबोधनमेव, न तु विशिष्टशक्त्याऽबोधनपर्यन्तमतो विशिष्टस्य लकारावाच्यत्वेऽ