________________
स्थानं परित्यज्य राजमार्गसमीपस्थायां कस्याञ्चिद्वाटिकायां तेन स्वनिवासः कृतः । ततो विद्यार्थिनामभावे तत्रैवोपवने लतापर्णवृक्षादीनुद्दिश्योच्चैः गूढस्थलशास्त्रविचारमालोचयन् बहून् दिवसाननैषीत् । राजमार्गेण गच्छद्भिविद्यार्थिभिः पण्डितैश्च सकुतूहलं प्रच्छन्नरूपेणोदासीनभावेन वा गदाधरस्य शास्त्रीयविचारं श्रुत्वा तस्य विशिष्टवैदुष्यपरिचयो लब्धः । ततः क्रमशस्तद्योग्यताविषयसन्देहरहिता विद्यार्थिनस्तत्समीपमध्येतुमाजग्मुः । इत्येवं क्रमेणाल्पेनैव कालेन महता प्रयत्नेन गदाधरस्य पाण्डित्यख्यातिः सर्वत्र प्रथिता । इत्येवं नवद्वीपमहिमानामकग्रन्थतो ज्ञायते ।
एवं शतशरछात्रानध्यापयन्तो गदाधरभट्टाचार्या विविधान् ग्रन्थानपि प्रणिन्युः । तद्यथा-(१) न्यायकुसुमाञ्जलिटीका, (२) तत्त्वचिन्तामण्यालोकटीका, (३) आत्मतत्त्वविवेकदीधितिटीका, (४) तत्त्वचिन्तामणिदीधितिप्रकाशिका, (५) मुक्तावलीटीका, (६) दुर्गासप्तशतीटीका, (७) ब्रह्मनिर्णयः तथा चतुःषष्टि वादार्थाः। तत्र केचन--विषयतावादः, शक्तिवादः, व्युत्पतिवादः, मुक्तिवादः, सादृश्यवादः, रत्नकोशवादः, कारणतावादः, अनुमितिमानसवादः, नव्यमतवादः, विधिस्वरूपवादः, आख्यातवादः, कारकवादः, नवादः, बुद्धिवादः, स्मृतिसंस्कारवादः, इत्यादयः ।
अनेन रचिताष्टोकाः प्रायशो गादाधरीति नाम्नां लोके प्रसिद्धाः । शक्तिवादटीकाकारो जयरामोऽस्य प्रधानः शिष्यः । गदाधरस्याविर्भावकाल: पञ्चाशदुत्तरषड्शताधिकैकसहस्रमितः (१६५० खीस्ताब्दः) इति कथ्यते ।
जयाटीकाकर्तुर्जीवनचरितविषये तदन्यतमशिष्यप्रवरेण महामहोपाध्यायेन श्रीगङ्गानाथझामहाशयेन तदानीं प्रयागविश्वविद्यालयकुलपतिना यल्लिखितं* तदेवात्र प्रकाश्यते ।
* एतत्पूर्वमेव सुप्रभातमितिनामकसंस्कृतपत्रिकायां प्रकाशितमासीत् ।